________________
धर्म
॥२८१॥
Jain Education
एत्तोच्चि निट्ठिा तुलबला दिवपुरिसगारावि । समयन्नहिं अन्नह पावइ दिट्ठेटुवाहा उ ॥ ७८४ ॥
यत एवेत्थं स्वस्वभावनियमादनियतः कर्मात्मनोर्वाध्यबाधकभावः अत एव हेतोर्देवपुरुषकारावपि तुल्यबलौ समयज्ञैः - प्रवचनार्थतत्त्वज्ञैर्निर्दिष्टौ । दैवमिति हि शुभाशुभं कर्म्माभिधीयते, पुरुषकारस्त्वात्मव्यापारः, उक्तं च" दैवं नामेह तस्वेन, कम्मैव हि शुभाशुभम् । तथा पुरुषकारस्तु, सधापारो हि सिद्धिदः ॥ १ ॥” इति ॥ कर्म्मात्मनोश्च बाध्यबाधकभावे तुल्यबलता प्रागभिहितैव । इत्थं चैतदङ्गीकर्त्तव्यमन्यथोदितदैव पुरुषकारखरूपानभ्युपगमे तयो - तुल्यबलताऽभ्युपगमेऽपि दृष्टेष्टबाधा प्राप्नोति ॥ ७८४ ॥ तत्र दृष्टवाधामुपदर्शयति
जं होअतक्कियं चिय देवकयं तं ति तस्स पाहन्ना ।
सजणभूओ पुण अत्थि तहिं पुरिसगारोवि ॥ ७८५ ॥
यद्भवति अतर्कितमेव-अनभिसंधितमेतत् दैवकृतमिति लोकेऽभिधीयते । न च तत् केवलदैवमात्रकृतम्, यत आह- 'तस्स पाइन्ना' तस्य देवस्य प्राधान्यात् - प्राधान्येन व्याप्रियमाणत्वात् तत् दैवकृतमित्युच्यते, यावता पुनस्तत्रोपसर्जनभूतः पुरुषकारोऽप्यस्ति । " न च व्यापारशून्यस्य फलं यत्कर्म्मणोऽपि हीति" वचनप्रामाण्यात् ॥ ७८५ ॥
For Private & Personal Use Only
संग्रहणिः.
॥२८१॥
Jainelibrary.org