SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ जयति चैष जीवो बलवदपि 'हु' निश्चितं कर्म-दर्शनमोहनीयादिकम् , 'आहचेति' कदाचित्काले वीर्येणैवात्मीयेन तथाभव्यत्वपरिपाकवशसमुत्थितेन । अत्र दृष्टान्तमाह-'असइ य इत्यादि' यथा असकृत्-अनेकधा जितपू वोऽपि मल्लो मलं कदाचिदीर्यान्तरायक्षयोपशमसामर्थ्यतः स्वभावत एवोत्थितेन निजवीर्येण रो-जयभूमौ जयति, है तद्वदयमपि जीवः कर्मभिरनेकधा जितपूर्वोऽपि कदाचित् खभावत एवोत्थितेन निजवीर्येण तानि कर्माणि जय तीति । इहायमाशयः-यद्यपि प्रागिवेदानीमपि अयं जीवो दर्शनमोहनीयादिकर्मकलुपितस्तथापि तस्येत्थंभूत एव खभावोऽनादिपारिणामिको वर्त्तते येनैतावन्तं कालं यावत् कर्मभिरसौ वाध्यो भवति, इत ऊर्दू तु प्रायस्तेषामेव इ. 18|कर्मणां बाधकः, तदुक्तम्-“तदूई बाध्यते दैवं, प्रायोऽयं तु विजृम्भते" इति । कर्मापि च दर्शनमोहनीया-18 दिकं प्राकालभावि पूर्व तथाखभावखहेतुभ्यः सकाशादित्थमुत्पन्नमासीत् येन जीवस्य सम्यक्त्वादिगुणगणावाप्तिविघातकृत् आसीत् । विवक्षितकालभावि पुनः कर्म खहेतुभ्यस्तथाखभावमुत्पन्नं येन तदवश्य जीवस्य बाध्यं भवति, उक्तं च-"उभयोस्तत्वभावत्वे, तत्तत्कालाद्यपेक्षया । बाध्यबाधकभावः स्यात्सम्यन्यायाविरोधतः ॥१॥” इति ॥ ततः साधूक्तं कर्मभिरनेकधा जितपूर्वोऽपि जीवः कदाचित् खभावत एवोत्थितेन निजवीर्येण बलवदपि कर्म जयतीति ॥ ७८३॥ AASALAMAU CRACK For Private Personel Use Only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy