________________
कत्थइ जीवो बलिओ कत्थइ कम्माई होति बलियाई।
एएण कारणेणं सवेसि न वीरिउक्करिसो ॥ ७८० ॥ क्वचिद्देशकालादौ जीवो बली-बलवान् भवति, कथमन्यथा अत्यन्तक्लिष्टविपाकानि ज्ञानावरणीयादीनि कर्माणि क्षपयित्वा अनन्ता जन्तवः सिद्धिमवाप्तवन्तः? । कुत्रचित् पुनर्देशकालादौ कर्माणि बलवन्ति भवन्ति, सिद्धेभ्योऽनन्तगुणानां कर्मपरतत्राणामसुमतां भवोदधौ पर्यटतां दर्शनात् । तत एतेन कारणेन न सर्वेषां जीवानामनन्तरोक्तविशेषणोपेतानामपि अविशेषेण वीर्योत्कर्षो भवति ॥ ७८० ॥ एतदेव भावयति
केइ उ सहावउच्चिय कम्मं जेऊण चिक्कणतरंपि।
णियविरियाउ पवजइ तं धम्मं तेण तज्जोगो ॥ ७८१॥ ___ कश्चित्तु-कोऽप्येव, तुरेवकारार्थः, खभावत एव समुत्थितात् निजवीर्यात् कर्म-दर्शनमोहनीयादि चिक्कणतरमपि-12 अतिनिबिडतरमपि जित्वा तं धर्म-स्वभावं ग्रन्थिदेशप्राप्तिहेतुभूतपरिणामविशेषनिबन्धनं प्रपद्यते, तेन कारणेन तद्योगः-अनन्तरोक्तधर्मयोगो भवति जीवस्य, नान्यथा ॥ ७८१ ।। सोऽपि स्वभावः कर्मजयहेतुः कथमितिचेत्, अत आह
Jain Education (
onal
For Private Personal Use Only
Www.jainelibrary.org