________________
धर्म
॥२७९॥
Jain Education
तद्भावे - सम्यक्त्वभावे चो हेतौ यस्मान्नियमाद् - अवश्यंतया उत्कर्षतोऽपि 'परियदृद्धूणमो उ' इति किंचिदूनार्द्धावशेषैकपुद्गलपरावर्त्तमात्र एव संसारो भवति । तुरवधारणे 'मो' निपातश्च पूरणे। न च किंचिद्नपुद्गलपरावर्त्तार्द्धरूपः संसारः सर्वेषामपि जीवानां, 'ता' तस्मात्तद्भावेऽपि - जिनोपदिष्टप्रकर्षरूपद्रव्यसंयमभावेऽपि तत् - सम्यक्त्वं नास्तीति गम्यते । ततः स्थितमेतत् - सम्यक्त्वस्य प्रकर्षगुणरूपत्वात् तत्प्राप्तौ केवलज्ञानप्राप्ताविव शीघ्रमुपजायजानो मोक्षो न विरुध्यते, उभयत्रापि तन्निमित्तभूतायाः प्रतिपक्षभावनायाः सामान्येन चिरकालत्वात् । केवलज्ञानदृष्टान्तोऽपि खल्पकालमात्रापेक्षया द्रष्टव्यो न पुनस्तद्भवमोक्षभावापेक्षयापि ॥ ७७८ ॥ यच्च प्रागुक्तं- 'सवीरिउक्करिसा सो होइ जीवधम्मोत्ति', तत्र परस्यावकाशमाह -
पत्तुकस्सठितीणं विचित्तपरिणामसंगयाणं च ।
सवेसिं जीवाणं कम्हा णो वीरिउक्करिसो ? ॥ ७७९ ॥
प्रासोत्कृष्ट स्थितीनाम् - अवाप्तदर्शनमोहनीयादिकर्मोत्कृष्टस्थितीनां तेषां हि प्रायः शुभोऽशुभो वा परिणामस्तीत्र एवोपजायत इति एतद्विशेषणोपादानं, विचित्रपरिणामसंगतानां च येन येन परिणामेनोपेतानां वीर्योत्कर्षो दृष्टस्ततद्विचित्र परिणामसंगतानामपि सतां सर्वेषामपि जीवानां कस्मान्न स तादृग्वीर्योत्कर्षो भवतीति १ ॥ ७७९ ॥ उच्यते
For Private & Personal Use Only
संग्रहणिः
॥२७९ ॥
w.jainelibrary.org