SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Jain Education lo नियमाद् - अवश्यतया नैवासौ ग्रन्थिदेशप्राप्तिः सम्यक्त्वहेतुर्भवति, किंत्वपूर्वकरणादिकैव क्रिया । यत् पुनः सम्यक्त्वं तदवश्यं मोक्षहेतुर्भवत्येव, तथैव प्रवचने व्यावर्णनात् ॥ ७७२ ॥ एते सम्मलाभे कह णु अनंतभवभावितो सिग्घं । संसारोत्ति जिआणं नासइ ? एयंपि परिहरितं ॥ ७७३॥ एतेन - अनेकशो ग्रन्थिदेशप्रात्यभिधानेन यदुच्यते- 'सम्यक्त्वलाभे सति कथं नु जीवानां संसारोऽनन्तभवभावितः शीघ्रं नश्यति १, चिरकालवासिततया सात्मीभूतस्य तस्य प्रतिपक्षभावनामात्रेणोन्मूलयितुमशक्यत्वात्, नयनेकज्वालाशतसहस्रसंकुलः प्रबलो दवाग्निर्जलकणिकामात्रेणोपशाम्यतीति एतदपि परिहृतं द्रष्टव्यम् ॥ ७७३ ॥ कथ|मित्याहओहेण दीहकालो जहा पडिवक्खभावणाएव । सम्मत्तं तीऍ फलं केवलमिव चरणकिरियाए ॥ ७७४ ॥ यस्मात्प्रतिपक्षभावनाया अपि, न केवलं संसारस्येत्यपिशब्दार्थः, ओघेन - सामान्येन दीर्घः कालो विद्यते, भव्यानामपि हि प्रायोऽनन्तशो ग्रन्थिदेशसंप्राप्तिर्न च सा प्रतिपक्षभावनामन्तरेणेति । यत्पुनः सम्यक्त्वं तत्तस्या एव For Private & Personal Use Only lainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy