________________
BARASAX
RUSSAIRA*****
इति । कुत इत्याह-सम्मादुवलंभभाषाओं' सम्यक्त्वाद्युपलम्भभावात्-सम्यक्त्वदेशविरतायुपलम्भभावात् । नही सम्यक्त्वादि सर्वत्र सर्वदा सर्वेषामविशेषेणोपलभ्यते येन तत् जीवत्वमात्रनिबन्धनं भवेत्, किंतु क्वचित् कदाचित कस्यचित्, न चैतदित्थमुपजायमानमहेतुकं, तथा सति देशकालादिनियमायोगात्, न च देशकालहेतुकमेवेदं, तदविशेषेऽपि कस्यचिदेव प्रतिनियतस्य तद्भावदर्शनात् , ततः प्रतिनियतसम्यक्त्वाद्युपलम्भान्यथानुपपत्त्या एतदनुमीयते यथा-अस्ति कश्चित् प्रतिनियतः खभावविशेषः केषांचिजीवानां यः परंपरया सम्यक्त्वादिलाभहेतुरिति ॥७६९ ॥ अयं च खभावविशेषो यथा भवति तथा दर्शयन्नाह
वेययतो पतिसमयं चित्तं कम्मं सवीरिउक्करिसा ।
सो होइ जीवधम्मो जो तस्संपत्तिहेउत्ति ॥ ७७० ॥ चित्र-चित्रखभावं कर्म-दर्शनमोहनीयादिकं वेदयमानस्य-विपाकानुभवनेन साक्षादनुभवतः सतः कस्यापि जीवविशेषस्य खवीर्योत्कर्षात्-खवीर्योल्लासविशेषात् स कोऽपि 'जीवधर्मो' जीवस्य धर्म:-खभावविशेषो भवति, यो भवन् तत्संप्राप्तिहेतुः-सम्यक्त्वादिनिबन्धनविवक्षितपरिणामविशेषसंप्राप्तिहेतुर्भवति ॥ ७७० ॥ ततः किमित्याह
१ देशकालदेशनाहेतुकमिति कपुस्तके ।
धम.४७
Jain Education Internationa
For Private & Personel Use Only
Wwjainelibrary.org