________________
धर्म
॥२७६॥
Jain Education
rt
अभावोच्चि तओ मओऽभावतो अहेऊओ । व पदत्थंतरमो जुत्तो पुव्वुत्तदोसाउ ॥ ७६८ ॥
यदुक्तं 'सा किं खभावतो वा भवेत् उतश्वित् गुणसेवनयेति' तत्रोभयपक्षेऽपि दोषाभावो यतो न 'तउत्ति' सकः स्वभावो हेत्वभाव एवास्माकं मतः । कुत इत्याह- 'अभावतो अहेऊओ' अहेतोः - हेत्वभावात्सकाशात्कस्यापि कार्यस्याभावात् अभवनात्, अन्यथा तत एव कटक के यूराद्युत्पत्तिप्रसङ्गतो विश्वस्यारिद्रताप्रसक्तेः । तथा नैवासौ खभावः पदार्थान्तरं युक्तः, पूर्वोक्तदोषात् - पूर्वाभिहितेश्वराद्यभ्युपगमदोषप्रसङ्गात् ॥७६८ ॥ यद्येवं तर्हि किंरूपः स इष्ट इत्यत आहst यवत्थुधम्मो पतिणियतो जं च ताण सवेसिं । य माणबाधितो सो सम्मादुवलंभभावातो ॥ ७६९ ॥
इष्टश्चासौ खभावोऽस्माकं वस्तुधर्मः स च यत् - यस्मात् प्रतिनियत एव कतिपयजीवव्यक्तिनिष्ठ एव । चोऽवधारणे भिन्नक्रमश्च स च यथास्थानं योजितः । 'ता' तस्मात् नासौ वस्तुधर्मलक्षणः स्वभावः सर्वेषामपि जीवानामविशेषेण भवति । न च वाच्यं तद्भावनियमहेत्वभावादसौ स्वभावः परिकल्प्यमानो मानवाधितः - प्रमाणबाधित
For Private & Personal Use Only
संग्रहणिः,
॥२७६॥
www.jainelibrary.org