SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Jain Education परिणामविसेसातो तस्सवि य तहाविहस्स को हेऊ ? । जइ ताव सहावोच्चि पडिभणिओ हंत सो पुल्विं ॥ ७६६ ॥ अथोच्येत परिणाम विशेषात् स तथाविधो बन्ध इति, ननु तस्यापि तथाविधस्य परिणामस्य को हेतुरिति वक्तव्यम् । यदि तावत् स्वभाव एव हेतुरुच्येत तर्हि स खभावो हन्तेति प्रत्यवधारणे पूर्वमेव प्रागेव - 'उहुंपि निरत्थिगा किरिये' त्यनेन ग्रन्थेन प्रतिभणितो - निराकृतः ॥ ७६६ ॥ अपि च, अभावो य तओन पुण पयत्थंतरं मतो तुब्भ । सरमादिप्पसंगा एवं च स किन्न सवेसिं ? ॥ ७६७ ॥ 'उत्ति' सकः स्वभावो हेत्वभावश्च तव मतः, न तु पदार्थान्तरमीश्वरादिप्रसङ्गात्-ईश्वराद्यभ्युपगमप्रसङ्गात् । तथाहि - यदि हेत्वभावः स्वभावो नाभिमतः स्यादपि तु पदार्थान्तरं तच्च सर्वेषामपि पदार्थानां तथा नियामकं तर्हि नामान्तरेणेश्वरादिरेवाभ्युपगतो भवेदिति । यदि नाम हेत्वभावः खभावो मतस्ततः किमित्याह - एवं सति - हेत्वभावाभ्युपगमे सति परिणामविशेषः किन्न सर्वेषामपि जीवानामविशेषेण भवति ?, भवेदेवेति भावः तथा च सति तन्निबन्धना ग्रन्थिदेशसंप्राप्तिरप्यविशेषेण भवेत् ॥ ७६७ ॥ अत्राचार्य आह— For Private & Personal Use Only ww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy