SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ इह-विचारप्रक्रमे आगमान्मोक्षाच सूत्रस्य 'पल्ले महइमहल्ले' इत्यादिरूपस्य विशेषविषयत्वेन-असंयतः कोऽपि प्रायोभावमाश्रित्यैवं बनातीत्येवंरूपेण किन्न तं ग्रन्थिं यावत् संप्राप्तिः घटते ?, घटत एवेति भावः, नद्यस्य प्रकृत्यथंगमकत्वात् । तत्रागमस्तावदयम्-"सम्मत्तम्मि उ लद्धे पलियपुहुत्तेण सावओ होजा। चरणोवसमखयाणं सागरसं-18 खंतरा होंति ॥१॥ एवं अप्परिवडिए सम्मत्ते देवमणुयजम्मेसु । अन्नयरसेढिवजं एगभवेणेव सवाई ॥२॥" इति । |मोक्षस्तु प्रकृष्टगुणानुष्ठानभावतः कर्मपुद्गलानां प्रसिद्ध एव, अन्यथोत्तरोत्तरदेशविरत्यादिगुणलाभानुपपत्तेः । यत एवं तस्मान्नायमनन्तरोक्तस्तं यावदिह संप्राप्तिन युज्यत इत्येवंरूपो दोषो भवति । इत्थं चैतदङ्गीकर्तव्यमन्यथा यत्तदधिकारे एवोक्तम्-'पक्खिवे ण किंचीत्ति' तद्विरुध्यत एव, अप्रमत्तसंयतस्यापि बन्धकत्वात् , यथोक्तम्-"अप्पमत्तसंजयाणं बंधट्टिई होइ अट्ट उ मुहुत्ता । उक्कोसा उ जहन्ना भिन्नमुहुत्तं तु विनेया ॥१॥” इति ॥ तस्मादोषविषयमेतदिति ॥७६३॥ पर आह १ सम्यक्त्वे तु लब्धे पल्यपृथक्त्वेन श्रावको भवति । चरणोपशमक्षयाणां सागरोपमाणि संख्यातान्यन्तरं भवन्ति ॥१॥ एवमपरिपतिते सम्यक्त्त्वे देवमनुजजन्मनोः । अन्यतरश्रेणिवर्जान्येकभवेनैव सर्वाणि ॥२॥ २ अप्रमत्तसंयतानां बन्धस्थितिर्भवत्यष्ट तु मुहुर्ताः । उत्कृष्टा तु जघन्या भिन्नमुहूर्त तु विज्ञेया ॥ १॥ SAMROGRAMROGRLS Jain Education in For Private & Personel Use Only ainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy