SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ CARSAA बन्धाभावः। कुत इत्याह-पुद्गलानामभावात्-बन्दव्यकर्मपुद्गलानामभावात् । एषामभावे उपपत्तिमाह-'इय इत्यादि' इतिः-एवं निर्जरामपेक्ष्य अन्तगुणरूपतया वृद्धिग्रहणतो-वृद्धिग्रहणेन ते वध्यमानाः कर्मपुद्गलाः कालान्तरे सर्वेऽपि जीवैयुज्यन्ते-संबन्ध्यन्ते, प्रभूततरस्य ग्रहणादल्पतरस्य च मोक्षणात् , यथा-सहस्रं प्रतिदिवसं पञ्चरूपकग्रहणे एकरूपमोक्षे च दिवसत्रयमध्य एव पुरुषशतेन सर्वमुपयुज्यते इति ॥ ७६० ॥ पर आह मोक्खोऽसंखेजातो कालाओ ते य ज जिएहितो। भणियाणंतगुणा खल्लु ण एस दोसो ततो जुत्तो ॥ ७६१ ॥ | मोक्षः-परिशाटः कर्मपुद्गलानामसंख्येयात् कालात् ऊई, तत ऊर्द्ध कर्मस्थितेः प्रतिषिद्धत्वात् , ते च परिश-14 टिताः कर्मपरमाणवः सर्वेभ्योऽपि जीवेभ्योऽनन्तगुणा एव । खलुशब्दोऽवधारणे । तत एषः-अनन्तरोदितो दोषो बन्धाभावलक्षणो न युक्तः, सत्यपि कर्मपुद्गलानां प्रभूततराणां ग्रहणे अल्पतराणां च मोक्षे तेषामनन्तत्वात् स्तोक४ कालादू चावश्यं मोक्षात् तेषां च मुक्तानां सर्वजीवेभ्योऽनन्तगुणत्वात् । नहि शीर्षप्रहेलिकान्तस्य राशेः प्रति-18 दिवसं रूपकपञ्चकग्रहणे अल्पतरमोक्षे च सति वर्षशतेनापि पुरुषशतेन निःशेषतो योगो भवति, प्रभूतत्वाद्, एवमिहापीति ॥ ७६१॥ अत्र गुरुराह % %*-54 JainEducation For Private Personel Use Only M ainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy