SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणिः ॥२७२॥ भिन्ने-अपूर्वकरणेन विदारिते सति तस्मिन्-ग्रन्थौ लाभः-प्राप्तिः परमपदहेतोः-मोक्षकारणस्य सम्यक्त्वस्य नियमाद-अवश्यंतया जायते, तल्लाभसमये च सर्वथा प्रागननुभूतोऽतीवानन्दविशेषो जीवस्य जायते । यथाहुः समयविदः"तथा च भिन्ने दुर्भदे, कर्मग्रन्थौ महाबले। तीक्ष्णेन भाववज्रेण, तीव्रसंक्लेशकारिणि ॥१॥ आनन्दो जायतेऽत्यन्तं, तात्त्विकोऽस्य महात्मनः। सद्याध्यपगमे यद्वयाधितस्य सदौषधादि॥२॥"ति, अवाप्तसम्यग्दर्शनश्चासौन पुनरपि तंग्रन्थि बन्धेन व्यवलीयते-अतिक्रामति, तथारूपपरिणामाभावात् , कदाचिदपि नैवासावुत्कृष्टस्थितीनि कर्माणि बनातीतियावत् , तदुक्तम्-“सम्यग्रदृष्टेरधोऽ[हीन ? पतितस्याप्य] बन्धो, ग्रन्थिमुल्लङ्घय देशितः । एवं सामान्यतो ज्ञेयः, परिणामोऽस्य शोभनः ॥१॥ मिथ्यादृष्टेरपि सतो, महाबन्धविशेषतः । सागरोपमकोटीनां, कोट्यो मोहस्य सप्ततिः ॥२॥ अभिन्नग्रन्थिबन्धोऽयं नत्वेकापीतरस्य तु" इति ॥ ७५४ ॥ अत्र पर आह तं जाविह संपत्ती ण जुजई तस्स निग्गुणत्तणओ। बहुतरबंधातो खलु सुत्तविरोधा जओ भणियं ॥ ७५५ ॥ तं-प्रन्थि यावदिह-विचारप्रक्रमे तस्य संप्राप्सिन युज्यते, निर्गुणत्वात्-सम्यक्त्वादिगुणरहितत्वात् । यदि निर्गुणत्वं ततः किमित्याह-'बहुतरबंधाओ खलुत्ति' खलुशब्दोऽवधारणे-निर्गुणस्य सतो बहुतरबन्धादेव । इत्थं चैतदङ्गीकर्तव्यमन्यथा सूत्रविरोधात् , यतो भणितं सूत्रे ॥ ७५५ ॥ ॥२७२॥ Jain Education a l For Private & Personel Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy