________________
AGR55*35
1-AMRA
तस्या अपि चैकस्याः सागरोपमकोटीकोट्याः स्तोकमात्रे-पल्योपमासंख्येयभागलक्षणे क्षपिते सति तस्मिन्नन्तरे जीवस्याभिन्नपूर्व एव, हुरवधारणे भिन्नक्रमश्च, ग्रन्थिरिव ग्रन्थिरेवं तीर्थकरगणधराः प्रतिपादयन्ति ॥ ७५२॥ तस्यैव ग्रन्थेः खरूपमाह
गंठित्ति सुदुब्भेदो कक्खडघणरूढगूढगंठित्व ।
जीवस्स कम्मजणितो घणरागद्दोसपरिणामो ॥ ७५३ ॥ - ग्रन्थिरिति ज्ञातव्यं जीवस्य कर्मजनितो घनरागद्वेषपरिणामः, किंविशिष्ट इत्याह-सुदुर्भेदः सुदुरुद्वेष्टनः, किंवदित्याह-'कर्कशघनरूढगूढग्रन्थिवत्' कर्कशः-अतिनिबिडः परुषपलाशमूलवल्कलप्रतिबद्धत्वात् , स च शिथिलोऽपि भवतीति विशेषयति-घनः-सर्वतो निबिडः आकृष्याकृष्य परिपीडित इत्यर्थः, स चाः सन् कथंचित् सूद्वेष्टनोऽपि स्यादत आह-रूढः-शुष्कः, असावपि अयःशलाकादिभिरुद्वेष्टयितुं शक्यतेति विशेषयति-गूढः-अनेकशस्तत्रैवानुविद्धव्याविद्ध इति ॥ ७५३॥
भिन्नम्मि तम्मि लाभो जायइ परमपयहेतुणो नियमा। सम्मत्तस्स पुणो तं बंधेण न वोलइ कयाइ ॥ ७५४ ॥
-KARE
*5%
Jain Educatio
n al
For Private & Personal Use Only
Miww.jainelibrary.org