________________
धर्म
॥२७॥
92****ARRASHERIA
संपत्ती य इमस्सा कम्मखयोवसमभावजोगातो।
संग्रहणि जह जायइ जीवस्सा वुच्छामि तहा समासेणं ॥ ७५० ॥ ___ संप्राप्तिश्चास्य-भावधर्मस्य यथा-येन प्रकारेण कर्मक्षयोपशमभावयोगतो जायते जीवस्य तथा अहं वक्ष्यामि समासेन-संक्षेपेण, संक्षिप्तरुचिसत्त्वानुग्रहफलत्वादस्य प्रयासस्य ॥ ७५० ॥ प्रतिज्ञातमेवाह
वन्नियकम्मस्स जया घसणघोलणनिमित्ततो कहवि ।
खविता कोडाकोडी सवा एकं पमोत्तूणं ॥ ७५१ ॥ वर्णितकर्मणः-प्रागभिहितस्थितिकस्य कर्मणः यदा घर्षणघूर्णननिमित्ततो नानायोनिषु विचित्रसुखदुःखानु-3 भवनेनेतियावत् कथमपि-केनचिदनिर्देश्यखरूपेण प्रकारेण क्षपिताः-प्रलयं नीता भवन्ति कोटीकोट्यः सर्वा अपि ज्ञानावरणीयादिसंबन्धिन्यः। किं सामस्त्येन ?, नेत्याह-एकां सागरोपमकोटीकोटी प्रमुच्य ॥ ७५१ ॥
॥२७॥ तीयवि य थेवमेत्ते खविए तहिमंतरम्मि जीवस्स । भवति हु अभिन्नपुवो गंठी एवं जिणा बेंति ॥ ७५२ ॥
Jain Education
For Private & Personal Use Only
ar.jainelibrary.org