________________
वेदनीयस्य मुहूर्त्ता द्वादश, नामगोत्रयोः पुनरष्टौ जघन्या स्थितिः, शेषाणां ज्ञानावरणीयादीनां जघन्या स्थितिभिन्नमुहूर्त्तम्- अन्तर्मुहूर्त्त विनिर्दिष्टा ॥ ७४७ ॥ उपसंहारमाह
जीवस्स कम्मजोगो इति एसो दंसिओ समासेणं । एतो पुट्टिं वोच्छामि अहकमं धम्मं ॥ ७४८ ॥
इतिः - एवमुपदर्शितेन प्रकारेण जीवस्य कर्मयोगो दर्शितः समासेन-संक्षेपेण न तु सकलोत्तरभेदखरूपादिप्रदर्शनेन । इतः - ऊर्ध्वं 'जीवाण भावधम्मो' इत्यादिना ग्रन्थेन पूर्वमुद्दिष्टं धर्मं यथाक्रममहं वक्ष्यामि ||७४८ ॥ तत्र खरूपं तावतस्यैवोपदर्शयन्नाह -
धर्म. ४६
Jain Education International
सम्मत्तनाणचरणा मोक्खपहो वन्निओ जिणिदेहिं ।
सो व भावधम्मो बुद्धिमता होति नायवो ॥ ७४९ ॥
यतः सम्यक्त्वज्ञानचरणानि जिनेन्द्रैर्मोक्षपथो वर्णितस्ततः स एव बुद्धिमता भावधर्मो भवति ज्ञातव्यः । तस्यैव शिवगतिधारणादिलक्षणान्वर्थयुक्तत्वात् ॥ ७४९ ॥
For Private & Personal Use Only
www.jainelibrary.org