________________
तम्हा मुत्तं कम्मं सिद्धमिदं जुत्तिओ इहं ताव ।
परमत्थपेच्छगेहिं जिणवयणाओ य विन्नेयं ॥ ७४३ ॥ यत एवं तस्मादिदं कर्म तावन्मूर्त-मूर्तिमत् सिद्धं-प्रतिष्ठामुपगतं युक्तितोऽनन्तराभिहितायाः सकाशात् । परमार्थप्रेक्षकैः पुनर्जिनवचनत एव, चोऽवधारणे, परमार्थतो विज्ञेयम् । अर्वाग्दर्शिनः केवलज्ञानावसेयभावखभावसम्यक्परिज्ञानाभावात् , “नो केवलिए भावे जं छउमत्थो मुणइ सम्ममिति" पूर्व सूरिवचनात् ॥ ७४३ ॥
एतस्स एगपरिणामसंचियस्स तु ठिती समक्खाया।
उक्कोसेतरभेदा तमहं वोच्छं समासेणं ॥ ७४४ ॥ एतस्य-अनन्तरादितस्य कर्मण एकपरिणामसंचितस्य, तुर्विशेषणे, स च प्रायः क्लिष्टैकपरिणामसंचितस्येति विशे-14 पयति, स्थितिः-सांसारिकशुभाशुभफलदातृत्वेनावस्थितिरुत्कृष्टेतरभेदभिन्ना, उत्कृष्टा जघन्या चेत्यर्थः, समाख्याता तीर्थकरगणधरैः, तामहं समासेन-संक्षेपेण, न तूत्तरप्रकृतिभेदस्थितिप्रतिभेदस्थितिप्रतिपादनप्रसङ्गेन, वक्ष्ये-अभिधास्ये ॥ ७४४ ॥ प्रतिज्ञातमेव निर्वाहयति१ नो कैवलिकान् भावान् यत् छद्मस्थो जानाति सम्यगिति ।
Jan Educati
onal
For Private Personel Use Only
THw.jainelibrary.org