________________
धर्म
संग्रहणि.
॥२६९॥
Attraction
अणुमाणंपि हु तप्पुवगं ति णो गाहगं अहिगतस्स ।
णय अन्नमत्थि माणं एतममाणं कहं हवतु ? ॥७४१ ॥ अनमानमपि यस्मात ततपर्वकम इति. तस्मात न ग्राहकमधिकतस्य-कल्प्यमानस्यार्थस्य. न चान्यत्तव मते किंचिदस्ति प्रमाणम् "प्रत्यक्षमनुमानं च प्रमाणे” इति वचनात् । तत एतत् पूर्वोक्तं कल्प्यमानमप्रमाणं कथं समीचीनं भवेत् ?, नैव भवेदितिभावः। प्रमाणमन्तरेण प्रमेयव्यवस्थाया अयोगात्, अन्यथा सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्त्या अतिप्रसङ्गात् ॥ ७४१॥ उपसंहारमाह
बज्झत्थाभावातो भत्ती एसा इमो तु देहोत्ति ।
विन्नाणमेत्तमेव उ परमत्थु विहाडिओ एवं ॥ ७४२ ॥ यदुक्तम्-'विज्ञानमात्रमेव परमार्थो ननु बाह्योऽर्थः, ततस्तदभावादयं देह इति भक्तिरेषा-कल्पनामात्रमिदमिति', तत्र स विज्ञानमात्रलक्षणः परमार्थः 'एवं' प्रदर्शितेन न्यायेन विघटितः, तस्मादस्ति बाटो देहस्तद्भावे च तदनुग्रहोपघातनिमित्ततया आत्मनः सुखदःखान्यथानुपपत्त्या तेन मूर्तिमताऽपि सह संयोगोऽभ्युपगन्तव्यः, तथा च सति कर्मणापि मूर्त्तिमता सह भविष्यतीति सिद्धं नः कर्म मूर्तिमत् ॥ ७४२ ॥ एतदेवोपसंहरन्नाह
॥२६९॥
Jan Education in
For Private
Personal Use Only
www.jainelibrary.org