________________
:
00CROSONAKOS
अगृहीतेऽप्यर्थिनि तस्य-बुद्धस्य भगवतो निजहेतुखभावतः-तथाभूतखकारणकलापसामग्रीसद्भावतः तथाविधश्चित्तोत्पादोजायते यथा-'मयतस्मायुपकर्त्तव्यमिति'। इतरस्यापि च लुब्धचित्तस्य हिरण्यग्रहणाभिमुखीभूतमानसस्य निजहेतुखभावतस्तथाविधचित्तोत्पादो जायते यतोऽस्माकमयं भगवानुपकारक इति प्रतीतिरुपजायते, ततो नेह कश्चित्पूर्वोक्तदोषप्रसङ्गः॥ ७३९ ॥ अत्राह
. माणं किमेत्थ तुझं? पच्चक्खं ताव ण घडई चेव।
अविगप्पगं जमिटुं अगाहगं तह य अन्नस्स ॥ ७४० ॥ _ 'अत्र' अनन्तराभिहितकल्पनायां 'मान' प्रमाणं तव किं १, किं प्रत्यक्षमनुमानं वा । तत्र प्रत्यक्षं तावन्न घटते, यत् -यस्मात्तत्प्रत्यक्षमविकल्पकं-कल्पनापोढमिष्टम् , 'तद्यदपि गृह्णाति तन्न निश्चयेन, किंतु तत्प्रतिभासेने ति वचनात् , ततो न तद्विवक्षितार्थनिश्चायकम् । अथोच्येत मा घटिष्ट प्रत्यक्षमविकल्पकं सविकल्पकं घटिष्यत एवेति । तदप्ययुक्तम्, तस्याप्रमाणत्वात् , भवतु वा प्रमाणं तथापि न तत् अन्यस्य-आत्मव्यतिरिक्तस्य ग्राहकम् । तथा चाह-"अगाहगं तह य अन्नस्स' सर्वस्यापि ज्ञानस्य खाकारमात्रवेदनमिष्टं, तथाऽभ्युपगमात्, अन्यथा अर्थस्यापि तद्वद्हणप्रसङ्गात् ॥ ७४०॥
करकA GRAA%
Jain Education
For Private Personel Use Only
ainelibrary.org