________________
Jain Education
न विसयगतसंकमतो जहुत्तदोसप्पसंगातो ॥ ७३५ ॥
यत् - यस्माद्य एव नियतो ज्ञाने ग्राहकपरिणामः स एव भवत्याकारो न विषयगतसंक्रमतो-न विषयसंबन्धाकारसंक्रमतो ज्ञातव्यः । कुत इत्याह-यथोक्तदोषप्रसङ्गात् - पूर्वाभिहित सकलदोषजालप्रसङ्गात् ॥ ७३५ ॥ स्यादेतत्, यदि विषयग्रहणपरिणामलक्षणो ज्ञाने आकारस्ततः किमित्याह
णय गज्झमंतरेणं सो जायइ जेण तेण तस्सिद्धी । तत्तो तु संगया बज्झदंसणाणुभवतो चेव ॥ ७३६ ॥
न च सः - विषयग्रहण परिणामलक्षण आकारो येन कारणेन ग्राह्यमर्थमन्तरेण जायते तेन कारणेन तत एव - आका|रादन्यथानुपपद्यमानात्, तुरवधारणे, यो बाह्यस्यार्थस्यानुभवस्तस्मादेव तत्सिद्धिः - वाह्यार्थसिद्धिः संगता - युक्त्युपपन्नेति | स्थितम् ॥ ७३६ ॥ ' बुद्धस्स य दाणपारमिये' त्येतद्व्याचिख्यासुर्दानपारमितां तावद्याचष्टे -
तस्स हिरन्नादी अब्भासा देहमादियं चेव । अग्गहविणिवित्तीजा सेट्ठा सा दाणपारमिया ॥ ७३७ ॥
For Private & Personal Use Only
jainelibrary.org