________________
धर्म
॥२६७॥
Jain Education
'ता' तस्मादनुभवसिद्धघटपटादि संवेदनान्यथानुपपत्तितो ध्रुवमेतदभ्युपगन्तव्यं यथा विषयग्रहणपरिणामतो - विषयग्रहणपरिणामलक्षणाकारसद्भावतस्तस्य - ज्ञानस्य साकारता भवतीति । विषयग्रहणपरिणामतः साकारता नत्वन्य|थेत्येतत्कथमवसीयत इति चेत् ? । अत आह- 'तदभावे तदभावो' यस्मात्तदभावे - विषयग्रहणपरिणामाभावे तदभावः - तस्याः साकारताया अभाव:, तमन्तरेण तस्याः सर्वथानुपपद्यमानत्वात्, यथोक्तं प्राकू भौतिकपुरुषवादिमतपरीक्षायाम् । 'न य सोत्ति' न च सः - साकारताया अभावोऽस्ति, तस्याः स्वसंवेदन सिद्धतयां अपहोतुमशक्यत्वात्, अन्यथा | प्रतिकर्म व्यवस्थानुपपत्तेश्च । तस्मात्सको विषयग्रहणपरिणामोऽस्तीति गम्यते ॥ ७३३ ॥
एते आगारो भिन्नोऽभिन्नोति एवमादीयं ।
जं भणियं तं सवं पडिसिद्धं होइ दट्ठवं ॥ ७३४ ॥
'एतेन' विषयग्रहणपरिणामलक्षणा कारव्यवस्थापनेन 'सो खलु तस्सागारो भिन्नोऽभिन्नो वे' त्येवमादिकं यद्भणितं तत्सर्वं प्रतिषिद्धं भवति द्रष्टव्यम् ॥ ७३४ ॥ कथमित्याह
जं गाहगपरिणामो णियतो नाणम्मि होइ आगारो ।
१ 'या भिन्ना अप, कपुस्तके |
For Private & Personal Use Only
संग्रहणिः
॥२६७॥
www.jainelibrary.org