________________
धर्म
॥२६६॥
( कथं ) सिध्यति ?, नैव सिध्यतीति भावः । एकान्ततुच्छस्य ज्ञेयत्वादिखभावायोगतस्तत्र यथोक्तवित्तिप्रवृत्त्यादेरसंभवात्। तस्मादभावो वस्तुस्वभाव एव यथोक्तोऽवगन्तव्यो नत्वेकान्तेन तुच्छरूपः । तुशब्द एवकारार्थो भिन्नक्रमश्च स च यथास्थानं योजित एव ।। ७२८- ७२९ ॥
न तुच्छंमि तम्मिय ( भावेऽवऽस्स न तुच्छे ) नाणं सदो य सवहा कमति । ता झासुतणातं न संगयत्थं ते (स) विन्नाणा ॥ ७३० ॥
भावेपि-सद्भावेऽप्येकान्तेन तुच्छरूपस्याभावस्य न तुच्छे तस्मिन्नभावे ज्ञानं शब्दो वा क्रमते, तद्विषयत्वशक्तत्ययो - गात्, अन्यथा तुच्छत्वानुपपत्तेः, अस्ति चाविगानेन सकलजनप्रसिद्धं तद्विषयं क्रममाणं ज्ञानादि, ततो 'नास्ति बन्ध्यापुत्र' इत्येवंविज्ञानात् उपलक्षणमेतत् एवंरूपशब्दप्रवृत्तेश्च यत् प्राक् उदीरितं वन्ध्यासुतनिदर्शनं 'जह वंझापुत्ताई' इति तन्न संगतार्थ-न समीचीनाभिधेयं तत्राप्येकान्ततुच्छरूपस्याभावस्य विषयत्वाभावात् । तन्नार्थोऽसन् खबुद्धिनिमित्तं भवति, किंतु सन्नेव, अनुभूयते चाविगानेनार्थबुद्धिस्ततस्तदन्यथानुपपत्त्या बाह्योऽर्थोऽभ्युपगन्तव्यः | ॥ ७३० ॥ एतदेवोपसंहरन्नाह -
अस्थि नागमो बज्झो अत्थो न अन्नहा णाणं । जुज्जइ सागारं तह बुद्धस्स य दाणपारमिता ॥ ७३१ ॥
Jain Education Inter ational
For Private & Personal Use Only
संग्रहणि
॥२६६॥
www.jainelibrary.org