________________
Jain Education
व्यभिचारः । अत्राह - 'कह तम्मीत्यादि' यदि वन्ध्यासुतादिरेव तत्र विषयत्वेनाभिमतस्ततः कथं तस्मिन् - वन्ध्यासुतादौ सर्वाख्योपाख्याविरहिते हन्त ज्ञानमभिधानं वा पूर्वोक्तखरूपं प्रवर्त्तते ?, नैव कथंचनापि प्रवर्त्तते इति भावः । सर्वाख्योपाख्याविरहितत्वेन तस्य विषयत्वशक्तेरप्ययोगात् ॥ ७२७ ॥ अत्रैव प्रतिषेधविचारावसरे सौगत विशेषअन्तरस्यापि मतमपनिनीषया निर्दिशति
भावोवलंभओ चि केइ अभावोऽवि गम्मती तुच्छो । एयमिह उवलभामि एयं तु न ( नेव ) ति विन्नाणा ॥ ७२८ ॥ तुच्छत्तं एगंता एतं तु णवत्तिसहवित्तीउ ।
कह सिज्झतित्ति ? तम्हा वत्थुसहावो अभावो वा ॥ ७२९ ॥
केचिदर्थनयप्रधानाः सन्तो धर्मकीर्त्त्यादय एवं ब्रुवते - यथा भावोपलम्भादभावोऽप्येकान्तेन तुच्छरूपोऽपि गम्यते । कथमित्याह - एतत् - घटादिकमिह - भूतलादौ उपलभे एतत्तु पटादिकं नैवेति शब्दप्रवृत्तेर्वित्तिप्रवृत्तेश्व (अभावस्यैकान्तात् - सर्वथा सकलाख्योपाख्याविरहितरूपतया सिद्धिः, तन्न, नैवेतिशब्दप्रवृत्तेर्विज्ञानप्रवृत्तेश्च ) कथमेकान्तेन पटाद्यभावस्य वन्ध्यापुत्राद्यभावस्य च तुच्छत्वमेकान्तात् ?, एकान्तेन तुच्छत्वं सकलाख्योपाख्याविरहरूपत्वं
For Private & Personal Use Only
www.jainelibrary.org