SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ -ACCURROSCARRIES सिय तब्बुद्धिनिमित्ताऽसंतो सो बुद्धिकारणं किह णु ? । जह वंझापुत्तादी ण तत्थ संबंधपडिसेहा ॥ ७२५ ॥ स्यादेतत् , नासौ भ्रान्तिर्विज्ञानमात्रनिमित्ता नापि रागादिदोषनिमित्ता किंतु तद्बुद्धिनिमित्ता-अर्थबुद्धिनिमित्ता, ततो न कश्चिदनन्तरोक्तदोषावकाशः। अत्राह-'असंतो' इत्यादि, सः-अर्थोऽसन्-अत्यन्ताविद्यमानः सन् कथं नु बुद्धः । कारणं भवेत् ?, नैव कथंचनापीतिभावः । असतः सर्वसामर्थ्यरहिततया कारणत्वायोगात् । पर आह-'जह वंझापुत्ताई' यथा वन्ध्यापुत्रादय आदिशब्दात् खरशृङ्गग्रहणम् । एतदुक्तं भवति-यथा वन्ध्यापुत्रादयः खरूपेणासन्तोऽपि नास्ति वन्ध्यापुत्र इत्येवमादेविज्ञानजातस्य हेतवो भवन्ति तथाऽर्थोऽपि खरूपेणासन्नपि खबुद्धेनिमित्तं भविष्यतीति। अत्राह-'नेति' यदेतदुक्तं तन्न । कुत इत्याह-संबन्धप्रतिषेधात् 'नास्ति बन्ध्यापुत्र' इत्यादी संबन्धप्रतिषेधनात् । न हि तत्र वन्ध्यादयःप्रतिषिध्यन्ते, तेषामध्यक्षत एवोपलभ्यमानत्वात् , नापि पुत्रादयस्तेषामपि सामान्यतोऽन्यत्रोपलब्धेः, किंतु वन्ध्यादेः पुत्रादिना सह यः संबन्धः स प्रतिषिध्यते, संवन्धाभावोऽपि च नैकान्तेन तुच्छरूपो यतस्तेन । व्यभिचारः स्याद् , अपि तु वन्ध्यादेरेव पुत्रजनकत्वादिधर्मवैकल्यपरिणतिलक्षणः खभावविशेषः, ततो नासौ तथा धर्म, ४५ Jain Education For Private & Personel Use Only RMjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy