________________
धर्म
संग्रहणिः
॥२६४॥
किंच इह-जगति या काचन भ्रान्तिः सा सर्वापि सत्यपूर्वा-सत्यार्थदर्शनपूर्विका दृष्टा, यथा-मरीचिकास जलभ्रान्तिः। तदुक्तम्-“साधर्म्यदर्शनाल्लोके, भ्रान्ति मोपजायते । अतदात्मनि तादात्म्यव्यवसायेनेति"। तत इयमपि भ्रान्तिरवश्यं किंचन तथाभूतं सत्यमवलम्बते, तत्पुनः सत्यं किमत्र भवेत् ?, विज्ञानमात्रमितिचेत नन्वेतदपि विज्ञानमात्र केवलं प्राक् प्रपञ्चेन प्रतिषिद्धम् । ततः सत्यतथाभूतबाह्यार्थनिबन्धनैवेयमपि भ्रान्तिरिति बाह्यार्थसिद्धिः ॥ ७२३ ॥ अन्यच,
विन्नाणमेत्तपक्खेवि जं व रागादिया धुवं दोसा।
ता तेण तन्निमित्ता को णु पओसो तुहऽन्नत्थ ? ॥ ७२४ ॥ विज्ञानमात्रपक्षेपि यत्-यस्मात् रागादय आदिशब्दात् द्वेषमोहपरिग्रहः दोषा ध्रुवं-निश्चिताः सन्ति । तदभक्तम्- "चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते" ॥१॥ इति । ततः किमित्याह-'ता ते न तन्निमित्तेति' 'ता' तस्मात्ते-तव मते न तन्निमित्ता-न विज्ञानमात्रनिमित्ता भ्रान्तिः किंतु रागादिदोषनिमित्ता, रागादिदोषाभ्युपगमे च को नु प्रद्वेषस्तवान्यत्रार्थे येन स नाभ्युपगम्यते ?, नैवासौ युक्तः, उभयोरपि तुल्ययोगक्षेमतया तस्य निष्कारणत्वात् इति भावः ॥ ७२४ ॥ पुनरपि परस्य मतमाशङ्कमान आह
॥२६४॥
%
-
Jain Education HD
For Private & Personel Use Only
www.jainelibrary.org