________________
Jain Education Interna
कश्चिन्नो दोषः, तात्त्विकत्वाभ्युपगमे हि दोषो भवति, नान्यथा । अत्राह - ननु तर्हि वक्तव्यं कोsस्या - अनन्तरोदिताया भ्रान्तेर्हेतुः १, न खलु सा निर्हेतुका युक्ता, सदा भावाभावप्रसङ्गात् । "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणा| दिति न्यायात् ॥ ७२१ ॥
अह तु विजाहेतू सावि ण णाणा पुढो तुहं काई ।
तंपि इह हेउ नाणं तओ विसेसो य पडिभणिओ ॥ ७२२ ॥
अथ पुनरुच्येत - अविद्या नाम पूर्वोक्ताया भ्रान्तेर्हेतुरिति । तदप्ययुक्तम्, यतः साध्यविद्या तव मतेन न ज्ञानात् पृथग्भूता काचिदस्ति, वाह्यार्था ( थे ) सिद्धिप्रसङ्गात्, किंतु ज्ञानमेव, तदपि च ज्ञानमिह हेतू - हेतुभूतमुपादानभूतं 'ततो विसेसो यत्ति' ततो-ज्ञानात्सहकारिभूतात् यो विशेष उपादानहेतोः सोऽपि 'आलयगया अणेगा सत्तीओ पागसंपउत्ताओ' इत्यादिना प्रबन्धेन प्राक् प्रतिभणितो - निराकृत इति नेह पुनरुच्यते ॥ ७२२ ॥ अत्रैवाभ्युच्चयेन दूषणमाह
किंचेह सच्चपुवा दिट्ठा भंती मरीयिमादीसु ।
तं पुण किमेत्थ विन्नाणमेत्तमेतंपि पडिसिद्धं ? ॥ ७२३ ॥
For Private & Personal Use Only
ainelibrary.org