________________
संग्रहणिः
॥२६॥
'चियेति' निपातोऽवधारणार्थः, स च भिन्नक्रमः। वस्तु द्रव्यपर्यायखभावम्-अनुगमव्यावृत्तिखभावम् एकानेकखरूपमेव-साधारणासाधारणखरूपमेव सत् यथैव फलनिमित्तं भवति-विशिष्टपरिदृश्यमानवत्तदर्थक्रियासमूहकारि भवति तथैव भणितं जिनवरेन्द्रः-क्षीणसकलरागादिदोषजालैस्तीर्थकरैः, तत्कथमिहानन्तरोक्ततुच्छशठोक्तीनामवकाशः?, तस्मात् घटत एव बाह्योऽर्थ इति स्थितम् ॥ ७१९ ॥
रज्जुम्मि सप्पणाणं एमादि जमुत्तमेयमवि मोहो ।
बज्झत्थाभावे जं रज्जसप्पो कतो एयं? ॥ ७२०॥ | यदपि प्रागुपसंहरता रज्जुम्मि सप्पनाणमित्याद्युक्तमेतदपि विचार्यमाणं परेषां मोह एव-मोहसूचकमेव । कुत इत्याह-'बज्झत्थेत्यादि' यत्-यस्माद्वाद्यार्थाभावे सति 'रज्जुरियमयं सर्प' इत्येतदपि कुतो ? नैव कुतश्चिदित्यर्थः ।। ततो बाह्यार्थानभ्युपगमे यदेतदुच्यते तत्केवलं मोह इति ॥७२०॥ अत्र परस्याभिप्रायमाशङ्कमान आह
सिय मंतिमेत्तमयं वत्त को इमीए हेउत्ति? ।
निरहेउगाण जुत्ता सइभावाभावदोसाओ ॥ ७२१ ॥ स्यादेतत् 'रज्जुरियमयं सर्प' इति यद्विज्ञानं तत् भ्रान्तिमात्रं-न तात्त्विकं, रज्वादेर्बाह्यार्थस्याभावात् , ततो न |
॥२६॥
Jain Education
a
l
For Private & Personel Use Only
FNrjainelibrary.org