________________
Jain Education
वयविनि संभवात् । यदप्युक्तम् — 'जइ ताव भिन्नदेसो भिन्ना दुपए सिए न अणू' इत्यादि, तदपि न नो बाधायै, तयोरेव परमाण्वोस्तथारूपविचित्रस्वभावतया तथाविधैकत्वपरिणामभावाभ्युपगमेन कथंचित्सप्रदेशत्वादेरपीष्टत्वात् । यच 'सिय अवयवी अमुत्तो' इत्याद्यभिहितं तदपि यथोक्तेऽवयविनि सर्वथाऽनवकाशमेव । यदप्युक्तम्- 'न च खारम्भकावयवेभ्योऽस्य जन्मोपपद्यते इत्यादि', तदप्यपरेषामेव दोपाय, नास्माकं परमाणूनामपि तथारूपचित्रस्वभा वतया तथातथापरिणामित्वाभ्युपगमात्, तथाविधैकत्वपरिणामस्य चावयवित्वेनाभ्युपगमात् । न चैवं तुलानतिविशेषाग्रहणमपि दोषकृत्, द्रव्यान्तरभूतस्यावयविनोऽनभ्युपगमात् । योऽपि स्वरूपविकारज्ञानविषयत्वार्थान्तर| संसर्गयुगपद्विधिप्रतिषेधविषयश्चतुर्द्धा विरुद्धधर्म्मसंसर्गः कम्पाकम्पादिरुक्तः सोऽपि न नो बाधायै, यतः परमाणूनां तथा चित्रस्वभावतया यः कथंचिदेकत्वपरिणामः सोऽवयवी, एकत्वपरिणामश्च नाम समानपरिणामो नचासावेकान्तेन तेषामभेदे भवति तत्कथं विरुद्धधर्मसंसर्गो दोषाय ?, एकस्य हि स विरुध्यते नानेकेषाम् तन्न पूर्वोक्तदोषाणामिह मनागप्यवकाशः ॥ ७१८ ॥ तथा चाह
गाणे सरूवं वत्थु च्चिय दवपज्जवसहावं ।
जह चैव फलनिमित्तं तह भणियं जिणवरिंदेहिं ॥ ७१९ ॥
For Private & Personal Use Only
jainelibrary.org