SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणिः ॥२६॥ तदभावे तस्या एवाभावात् , बादरमूर्तत्वेन-स्थूरमूर्त्तत्वेन अनाशात्-उत्पादात् , तावणू सूक्ष्ममूर्तत्वमपहाय तथारूपचित्रवभावतया तथाविधैकबादरमूर्त्तत्वेनाभूतामितियावत् । कुत एतदित्थमवगम्यत इति चेत् । आह| 'सत्ताउत्ति' सत्त्वात् , इह हि न सतः सर्वथा विनाशो नाप्यत्यन्तासत उत्पादः । यदाह-"नासतो विद्यते भावो, नाभावो विद्यते सत इति"। तद्यदि परमाणोः परमाण्वन्तरेण सह सर्वात्मना संयोगेसति अणुमात्रता भवेत्तर्हि तस्य-परमाण्वन्तरस्याभाव एवाभ्युपगतः स्यात्, न च सतः सर्वथा विनाशो भवति, तस्मात्सत्त्वादनुमीयते न सर्वात्मनापि संयोगे सत्यणुमात्रता भवति, किंतूपचयविशेष इति न कश्चिद्दोषः ॥ ७१७ ॥ अवयविपक्षे निर्दोषतामुद्भावयन्नाह णय अवयवी विभिन्नो एगंतेणऽवयवाण जइ णेहिं । इच्छिज्जइ त्ति दोसा तदणुगता तेण णो जुत्ता ॥ ७१८ ॥ न चावयवी जैनैरेकान्तेन खावयवेभ्यो विभिन्न इष्यते, किंतु तेभ्यः कथंचिदनन्यः-तदेकत्वपरिणामलक्षणस्तेन कारणेन ये दोषास्तदनुगता-अवयविपक्षानुगताः प्रागभिहितास्ते सर्वेऽपि न युक्ताः, परपरिकल्पितादवयविनोऽस्य सर्वथा जात्यन्तरत्वात् । तथाहि-नात्र देशकार्यवृत्त्ययोगलक्षणदूषणमुपढौकते, तस्यावयवेभ्योऽर्थान्तरभूते एवा SAMAS ॥२६॥ in Edenlan ww.jainelibrary.org For Private & Personal Use Only i na
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy