SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ द्रव्येण सहानुवेधोऽस्ति, तस्य सर्वगतत्वात्, न च तदुपलभ्यते, खयममूर्तत्वात् , तद्वत् रूपादयोऽप्यमूर्तत्वे सति नोपलभ्यरन् । अथोच्येत न रूपादीनामिवाकाशस्यापि मूर्त्तिमता द्रव्येण सह इतरेतरस्वरूपप्रवेशात्मकोऽनुवेधोऽस्ति, किंतु तदभिन्नदेशतामात्रलक्षणस्त तो नाकाशस्येव रूपादीनामदर्शनप्रसङ्गः । अत आह-'मुत्तामुत्तेकभावो वा' इति । | वाशब्दः पक्षान्तरसूचने । यदि इतरेतरप्रवेशात्मकोऽनुवेधो रूपादीनामिष्यते तर्हि मूर्त्तद्रव्यस्यामूर्तानां च रूपादीनां परस्परमैक्यभावः प्राप्नोति, इतरस्य इतरस्मादव्यतिरिक्तत्वात् , तत्स्वरूपवत्, ततो द्रव्यं वा केवलं भवेत् न रूपादयो, रूपादयो वा भवेयुनतु द्रव्यं, तथा च सति प्रतीत्यादिविरोध इति कथंचिदितरेतरखरूपप्रवेशात्मको नुवेध एष्टव्यो न तु सर्वात्मना; तथा च सति नामूर्ती एव रूपादयो गुणाः किंतु कथंचिदिति स्थितम् ॥७१६॥ | तदेवं देशसंवन्धपक्षे दोषाभावमभिधाय सांप्रतं कायॆपक्षेऽपि तं भावयन्नाह णय जुत्तं अणुमेत्तं सत्ताओ सवहावि संजोगे। बादरमुत्तत्ताणासभावतो उवचयविसेसा ॥ ७१७ ॥ | न च सर्वथापि-सर्वात्मनापि संयोगेऽभ्युपगम्यमाने अणुमात्रं युक्तम् । कुत इत्याह-उपचयविशेषात्-उपचयविशेषभावात् । सोऽपि कथमितिचेत् ? अत आह-'वायरमुत्तत्ताणासभावओ' अनाश इत्युत्पादोऽभिधीयते न स्थितिः, in Educat i onal For Private & Personel Use Only Vivww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy