SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Jain Education 'सोय तस्स धम्मो त्ति' स च - दिग्भागभेदस्तस्य - परमाणोर्धर्मः - पर्यायः । इत्थं चैतदङ्गीकर्त्तव्यमन्यथा तदभावेयथोदित दिग्भागभेदाभावे अवस्थानस्याभावेनाभावप्रसङ्गात् । ननु यदि तात्त्विको दिग्भागभेदः परमाणोरभ्युपगम्यते तर्हि तस्य सप्रदेशता बलात् प्रसज्येत, तथा च सति "परमाणुरप्रदेश इति" पारमेश्वरवचनविरोधप्रसङ्ग इति । अत आह— 'अपदेसो दधयाए उ' परमाणुरप्रदेशो भगवद्भिरभिहितो द्रव्यतयैव - द्रव्यरूपतयैव, तुरवधारणे, नतु पर्यायतः, पर्यायतस्तस्य सप्रदेशतयाभ्युपगमात् । तदुक्तं प्रज्ञप्तौ द्रव्यक्षेत्राद्यपेक्षया सप्रदेशत्वचिन्तायाम् - " भावओ सप्पदेसे" इति । दिग्भागभेदश्च तस्य परमाणोः पर्यायः, ततस्तदपेक्षया सप्रदेशतायां न कश्चिद्विरोधः ॥ ७१४ ॥ अथ कथं तस्य द्रव्यरूपता सिद्धा येनोच्यते अप्रदेशो द्रव्यतयेति । अत आह— रूवादिसंगतो जं ण य रूवाणूवि केवलो अस्थि । तस्स रसादणुवेहा तेसिंपि य तदणुवेधातो ॥ ७१५ ॥ यत् - यस्मात् रूपादिभिः संगतो - युक्तोऽयं परमाणुरन्यथा तदभावप्रसङ्गात् । किं हि तन्मूर्त्तमस्ति यत् रूपादिमन्न भवतीति । ततो रूपादिमत्त्वात् गुणपर्यायवत् द्रव्यमिति द्रव्यलक्षणतः परमाणुर्द्रव्यमेव । इह सुगतमतानुसारिणः १ भावतः सप्रदेश: । For Private & Personal Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy