________________
धर्म
संग्रहणि
॥२६॥
***ORIOS089940
दिसिभेयाउ च्चिय सकभेदओ कह ण अप्पतरगंति ? ।
दवेण सकभेदं विवक्खितं ता कुतो तमिह ? ॥ ७१३ ॥ ननु दिग्भेदात्-पूर्वादिदिग्भेदात्खलु शक्यः परमाणोर्मेंदः कर्तुं, ततः कथमुच्यते-नहि ततोऽल्पतरमन्यदस्तीति । नैष दोषः। यतः परमाणुरिति द्रव्यतोऽशक्यभेदं विवक्षितं, न च तस्य द्रव्यतो भेदः कर्तुं शक्यते, 'ता' तस्मात्कुत इहजगति तत्-विवक्षितपरमाणोरपि सकाशादन्यदल्पतरं भवेत्?, नैव कुतश्चिदिति भावः। ननु च यदि द्रव्यतोऽशक्यभेदं तत् परमाणुद्रव्यं तर्हि तस्य दिग्भागभेदोऽपि न स्यात् , सोऽपि हि द्रव्यरूपस्य सतस्तस्य परमाणोरंशेन भवति, तथा च सति भगवन्मुनीन्द्रवचनविरोधः, एकप्रदेशावगाढं परमाणुद्रव्यं सप्तप्रदेशा च तस्य स्पर्शनेति ॥७१३॥ अत आह
तस्सवि सदवत्थाणा दिसभेदो सो य तस्स धम्मोत्ति ।
तदभावे भावातो अपदेसो दवताए तु ॥ ७१४ ॥ तस्यापि-द्रव्यतोऽशक्यभेदस्यापि आस्तां तावदन्यस्येत्यपिशब्दार्थः, दिग्भेदः-पूर्वादिदिग्भेदः। कुत इत्याह'सदवस्थानात्' सतोऽवश्यं क्वचिदवस्थानं सदवस्थानं तस्मात् , तद्धि द्रव्यतोऽशक्यभेदमपि सत्, सचावश्यं क्वचिदवतिष्ठत इति । स च दिग्भागभेदो न कल्पनामात्रं, नापि द्रव्यरूपतया अंशेन, किंतु तात्त्विको धर्मो यत आह
॥२६॥
Jain Education
For Private & Personel Use Only
DMew.jainelibrary.org
PS