________________
Jain Education
च - ' बाधकाभावश्चेदानीमेवोपदर्श्यमानोऽस्तीति' । यदप्याशङ्कितम्- 'ते चैव कजगम्मा' इत्यादि तदपि न समीचीनमेव, यतो न खल्विह पूर्वपरिणामिकारणमन्तरेण किंचिदपि कार्यमुपजायते, “न तथाभाविनं हेतुमन्तरेणोपजायते किंचिदिति वचनात्" । अन्यथा खरविषाणस्याप्युत्पत्तिप्रसङ्गादित्युक्तमनेकधा प्राक् । ततो विशिष्टसंस्थानोपेत| परमाणुनैरन्तर्यात्मक घटादिकार्यदर्शनात् प्रत्येकावस्थाभाविनोऽपि तत्कारणभूताः परमाणयोऽनुमीयन्त एव । यदपि 'कह दीसइति वच्च'मित्याद्यभिहितं तदप्येकान्तेनापेशलमेव, विषयग्रहणपरिणामलक्षणस्यैव प्रतिप्राणि प्रसिद्धस्याकारस्य ज्ञानेऽभ्युपगमात्, न चैतदभ्युपगममात्रं किंतु वस्तुतत्त्वमेव यदाहुः श्रीमल्लवादिनः - "न विषयग्रहणपरिणामातेऽपरः संवेदने विषयप्रतिभासो युक्तो युक्तत्ययोगादिति” । ततो नार्थस्यानाकारभावो नापि ज्ञानार्थयोरैक्यं, न चार्थस्याग्रहणं येन 'तग्गहणाभावाओ तुलत्तं गम्मई किह णु' इत्यादिदोपप्रसक्तिर्भवेत् । न च तन्निराकारमभ्युपगम्यते येन तत्पक्षभावी प्रतिकर्मव्यवस्थानुपपत्तिलक्षणो दोषः स्यात्, विषयग्रहण परिणाम लक्षणस्याकारस्याभ्युपगमादिति सर्वे सुस्थमेव । एतच प्रस्तावानुरोधादिहो तमन्यथा पुनरेतदाचार्यः खयमेव 'ता विसयगहणपरिणामओ य सागारया हवइ तस्सेत्यादिना' प्रपञ्चतोऽभिधास्यतीति ॥ ७१२ ॥ तत्र यदुक्तम्- 'नहप्पतरयं तओ अत्थित्ति', तत्र पर आह
For Private & Personal Use Only
%% %
w.jainelibrary.org