________________
धर्म
॥२५९॥
-SRUSHRASESASAR
अल्पतराभावात्-ततोऽधिकृतात्परमाणोरन्यस्याल्पतरस्याभावात् । एतदेव स्पष्टयति-नहप्पंतरयं तओ अत्थि, संग्रहणिः न हि यस्मात् ततः-अधिकृतात्परमाणोरन्यदल्पतरमस्ति, ततस्तस्य परमाणुत्वं न व्याहन्यत इति ॥७११॥
पच्चासत्ती य मिहो तेसिं धम्मंतराणुवेधातो।
धम्मंतरभावातो गहणं इय समुदियाणं तु ॥ ७१२ ॥ प्रत्यासत्तिश्च मिथः-परस्परं तेषां भवति, धर्मान्तरानुवेधात्-इन्द्रियग्राह्यतालक्षणखभावान्तरानुवेधात् , न तु || स्वखरूपावस्थितानामेव, ततो धर्मान्तरानुवेधभावादभिहितलक्षणात् समुदितानां सता इतिः-एवं यथा-सकलजनैरनुभूयते तथा ग्रहणमुपपद्यत एव । उक्तं च-"परमाणूनामेवायं खभावो येन तत्तत्कालाद्यपेक्षया तत्र तत्र देशे। | तैस्तैस्तदन्यपरमाणुभिः सह परस्परं नैरन्तर्येण घटादिलक्षणसंस्थानवता(वन्तो)ऽवतिष्ठन्ते बादरीभवन्ति च, बादरत्वं च समुदितानामिन्द्रियग्राह्यखभावतेति" । एतेन यदुक्तं प्राक्-'परमाणवो न इंदियगम्मा' इत्यादि तत्प्रत्युक्तमवसेयं, तथासमुदितानां चक्षुरिन्द्रियग्राह्यत्वाभिधानात् । यदप्युक्तम्-'अविगानाभावान्न योगिज्ञानमपि युक्तिक्षम|मिति' तदप्ययुक्तम् , तस्य सद्भूतवस्तुतत्त्वपरिच्छेदप्रवणत्वात् । बाह्यस्य चार्थस्य तत्साधकप्रमाणभावतो बाधकाभावाच सद्भूतवस्तुरूपत्वात् । तत्र तत्साधकं प्रमाणं ज्ञानाकारवैचित्र्यान्यथानुपपत्तिलक्षणं प्रागुपन्यस्तं, वक्ष्यति
॥२५॥
O
Jain Education de
For Private & Personel Use Only
T
ww.jainelibrary.org