SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकार परिचयः ॥९॥ (३) वादिदेवसूरयः स्याद्वादरत्नाकरे-"प्रकरणचतुर्दशशतीसमुत्तुङ्गप्रासादपरम्परासूत्रणैकसूत्रधारैरगाधसंसारवारिधिनिमज्जजन्तुजा- तसमुत्तारणप्रवणप्रधानधर्मप्रवणप्रवर्तनकर्णधारैर्भगवत्तीर्थकरप्रवचनाऽवितथतत्त्वप्रबोधप्रसूतप्रवरप्रज्ञाप्रकाशतिरस्कृतसमस्ततीर्थिकचक्रप्रवादध्वान्तप्रचारैः प्रस्तुतनिरतिशयस्याद्वादविचारैः श्रीहरिभद्रसूरिभिः" (४) मुनिरत्नसूरयोऽममस्वामिचरित्रमहाकाव्ये प्रथमसर्गे " स्तौमि श्रीहरिभद्रं तं येनाहगीमहत्तरा । चतुर्दशप्रकरणशत्याऽगोप्यत मातृवत् ॥ ९९॥" प्रकृता श्रीनागपुरे समर्थिताऽणहिलपाटके नगरे । अब्धि-मुनि-रुद्रसंख्ये वहमाने वैक्रमे वर्षे ॥६॥ साहाय्यमत्र परमं कृतं विनेयेन रामचन्द्रेण । गणिना लेखनसंशोधनादिना शेषशिष्यैश्च ॥७॥" १-दार्शनिकोऽयं महाग्रन्थः प्रमाणनयतत्त्वालोकाऽलङ्कारसूत्राणां बृहद्विवरणरूपश्चतुरशीतिसहस्रलोकप्रमाणश्च श्रीमुनिचन्द्रसूरिशिष्यैर्वादिदेवसूरिभिर्विरचितः । सोऽयमिदानीं न कापि संपूर्णतयोपलभ्यते । २-एतदू भावितीर्थपतेरममनाम्नः कथावर्णनपरं पौर्णमिकमुनिरनसूरिभिः १२५२ दा संख्ये विक्रमवत्सरे व्यरचीति प्रशस्तितोवबुध्यते । तथाहि "एतद् विक्रमतो द्वि-पञ्च-दिनकृद्वर्षे कृतं पत्तने सम्यक शोधितवान् नृपाक्षपटलाध्यक्षः कुमारः कविः ॥ सद्वैयाकरणाग्रणीविधिरुचिः श्रीपूर्णपालो यशः-पालो बालकविस्तथा मण-महानन्दौ च सभ्याग्रिमौ ॥ ३०॥" in Education For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy