________________
तदेवमेतेषामाचार्यवर्याणां नानाविधेषु पुण्यावदातेषु सत्स्वपि तन्मुख्यस्थानं साहित्यसेवैव समासादयतीति श्रीमत्संपादितः साहित्यराशिरेव विशेषतो विवेचनीयो भवति । स च चतुर्दशशतप्रकरणमान इति बहवः, चत्वारिंशदधिकचतुर्दशशतमन्थसंख्याक इत्यपि केचन,
चतुश्चत्वारिंशदधिकचतुर्दशशतप्रकरणात्मक इति च केचित् । तत्र प्रथमपक्षसमर्थका एतेHT (१) श्रीमभयदेवसूरयः पञ्चाशकटीकाप्रान्ते-"समाप्ता चेयं शिष्यहिता नाम्ना सितपटपटलप्रधानप्रावचनिकषुरुषप्रवरचतुर्दशशतसंख्याप्रकरणप्रबन्धप्रणायिसुगृहीतनामधेयश्रीहरिभद्रसूरिविरचितपश्चाशकाख्यप्रकरणटीकेति ।"
(२) मुनिचन्द्रसूरय उपदेशपट्टीकायाम्-"महत् प्रवचनवात्सल्यमवलम्बमानश्चतुर्दश प्रकरणशतानि चकार" इति । १-अस्या निर्माणसमयादिकं तु क; तत्प्रान्ते एवमुपदिष्टम्
"चतुरधिकविंशतियुते वर्षसहस्र गते च सिद्धेयम् । धवलकपुरे वसतौ धनपत्योर्बकुलबन्दिकयोः । अणहिलपाटकनगरे संघवरैर्वर्तमानबुधमुख्यैः । श्रीमद्रोणाचार्यैर्विद्वद्भिः शोधिता चेति ॥" २-इयं टीका गण्यवस्थायां 'रामचन्द्र' इत्याख्याभृतां वादिदेवसूरीणां गुरुभिर्मुनिचन्द्रसूरिभिः ११७४ मितविक्रमवर्षे व्यरचीति तदीय-15 प्रशस्तिभागेनैतेन ज्ञायते
"प्रायस्तत्सर्वसन्तानभक्तिमान् मुनिनायकः । अभूच्छीमुनिचन्द्राख्यस्तेनैषा विवृतिः कृता ॥५॥
RAGONAGACACA
Jain Education
For Private Personel Use Only
Www.jainelibrary.org