________________
कथमुच्यते भेदकभावाभावो? यावता अस्ति कालो भेदकः, तथाहि-विवक्षितं चरमं नीलज्ञानमिदानींतनक्षणवर्ति ततः पीतादिज्ञानहेतुः, शेषाणि तु तदन्यक्षणवर्तीनि ततो नीलज्ञानस्यैव तानि कारणानि इति चेत् ? । ननु तद्भावे कथं न बाह्यार्थ (सिद्धिः?, कालस्यैव बाह्यार्थ) त्वात् । स्यादेतत्, न कालो भेदकः, किंतु ज्ञानान्तरमेव, ततो नोक्तदोषप्रसङ्ग इति । अत आह-'णाणंतरंपीत्यादि' ज्ञानान्तरमपि तद्भेदकत्वेनाभ्युपगम्यमानं भिन्नाद्धंभिन्नकालमभिन्नाद्धम्-अभिन्नकालं वा एकान्तेनायुक्तमेव । तथाहि-नाभिन्नाद्धं ज्ञानान्तरं भेदकं युक्तं, समकाल|भावितया परस्परमुपकार्योपकारकत्वाभावात् । भिन्नाद्धमपि ज्ञानान्तरं यावद्विवक्षितनीलज्ञानोपादानस्य वैशिष्टयं नाधत्ते तावन्न विवक्षितनीलज्ञानस्य भेदकं युक्तम् , उपादानस्य ततः सकाशात् विशेषाभावे फले विशेषायोगात्,
उपादानस्य च ततो ज्ञानान्तराद्विशेषो न युक्तः, समकालभावत्वादिति, एतच 'वइसिट्ठपि न जुज्जइ खणिगत्ते ६ कारणस्सेत्यादिना' ग्रन्थेन विस्तरतः प्रागभिहितमिति नेह पुनः प्रतायते । तन्न ज्ञानान्तरमपि भेदकं युक्तमिति कथं विवक्षितं नीलज्ञानं पीतादिज्ञानहेतुरुपपद्यते ॥ ७०६॥
जायइ य नीलसंवेदणाउ पीतादि तुह मतेणावि । ता जो इमस्स हेतू सो च्चिय बज्झत्थमो नेओ ॥ ७०७ ॥
Jain Education in
For Private & Personel Use Only
Mainelibrary.org