SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Jain Education In अथ मन्येथाः खः - आत्मीयो भावः - सत्ता स्वभाव इति व्युत्पत्तेः तस्यैव नीलज्ञानस्य यत् आत्मरूपं तदेव च कारणान्तरविकलं - बाह्यार्थादिहेत्वन्तरविरहितं -पीतादिज्ञानहेतुरिति न कश्चिद्दोषः ॥ ७०२ ॥ अत्राह - ते सामने कारणविगलत्तणे य किन्नेवं ? | अन्नपि नीलहेऊ जाय पीतादिहेउत्ति ॥ ७०३ ॥ नीलत्वे- नीलज्ञानत्वे सामान्ये कारणविकलत्वे च - वाह्यार्थादिकारणान्तररहितत्वे च सामान्ये सति किन्नैवमन्यदपि - नीलज्ञानं नीलहेतुः - विवक्षितनीलज्ञानहेतुभूतं जायते पीतादिहेतुः १ । इदमुक्तं भवति इह कदाचित् प्रबन्धवन्त्यपि ज्ञानानि जायन्ते, तथानुभवात्, नीलज्ञानस्यात्मरूपमेव कारणान्तरविकलं पीतादिज्ञानहेतुरिष्यते तर्हि यथा चरमं नीलज्ञानं पीतादिज्ञानान्तरहेतुस्तथा ततः प्राचीनमपि कस्मान्न भवति १, विशेषाभावादिति ॥ ७०३ ॥ अह तं विसिगं चि वइसिहं हंत किंकयं तस्स ? । अह तु सहेतुकयं चि ण तेसि तत्ताविसेसातो ॥ ७०४ ॥ अथ तत्-नीलज्ञानं विशिष्टमेव पीतादिज्ञानहेतुरिष्यते न यत्किमपि न च नीलज्ञानहेतुर्नीलज्ञानं विशिष्टमिति For Private & Personal Use Only ainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy