________________
धर्म
॥२५६॥
--... Jain Educatio
अब्भुवगंतवमिदं एवं बज्झत्थसिद्धीओ ॥ ७०० ॥
'ता' तस्मात् योऽस्य - पीतादिज्ञानस्य हेतुः स एव बाह्योऽर्थः इतीदमवशेनापि - अकामेनापि अभ्युपगन्तव्यम् । एवं च सति बाह्यार्थसिद्धिव्याहतप्रसरेति स्थितम् ॥ ७०० ॥ अत्र परस्य मतमाशङ्कमान आह
अह तु सहावो हेऊ भावोऽभावो व होज्ज ? जति भावो । सो चेव उवज्झत्थो अह तु अभावो ण हेउत्ति ॥ ७०१ ॥
अथ न बाह्योऽर्थो हेतुः किंतु स्वभाव एव । तुरेवकारार्थो भिन्नक्रमश्च स चेह योजित एव । अत्राह - 'भावो| इत्यादि' भावो वा स खभावो भवेदभावो वा ? । तत्र यदि भावस्ततः स एव बाह्योऽर्थः केवलं स्वभावशब्देनाभ्युपगतः । अथाभावस्तर्हि न हेतुः, अभावस्य हेतुत्वायोगात्, अन्यथा तत एव कटककुण्डलाद्युत्पत्तेर्विश्वस्यादरिद्रताप्रसङ्गः ॥ ७०१ ॥ पुनरप्यत्र परमारेकमान (ण) आह
सो भावोत्ति सहावो तस्सेव जमायरूवमो अह उ । तं चैव कारणंतरविगलं पीतादिहेउत्ति ॥ ७०२ ॥
For Private & Personal Use Only
संग्रहणिः
॥२५६॥
www.jainelibrary.org