SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ SAXCLUSARASHOGA5 कथं भिन्ना इति? । कथंचिद्वादाभ्युपगमेन चाविरोधे खदर्शनपरित्यागप्रसङ्गः । अथोच्येत-न ताः शक्तयो भिन्ना नाप्यभिन्ना नापि भिन्नाभिन्नाः, किं त्वेकान्तेनावाच्यास्तत्कथमुक्तदोषावकाश इति । अत आह-'नये'त्यादि, नच ताः शक्तय एकान्तेनावाच्याः, कुत इत्याह-अवाच्यशब्दप्रवृत्तेः, यदि हि एकान्तेनावाच्याः शक्तयस्ततः कथमवाच्यशब्दस्थापि तत्र प्रवृत्तिर्भवेदिति ? ॥ ६९८ ॥ पुनरपि परस्य मतमाशङ्कमान आह परिगप्पिता तु अह ता विसिट्ठफलकारणं कहन्नु मता ?। तब्भावा फलभावे अतिप्पसंगो स चाणिटो ॥ ६९९ ॥ । अथैताःशक्तयो न वस्तुसत्यो येन भेदाभेदादयो भवेयुः, किंतु परिकल्पिता एव, ततो न कश्चित्पूर्वोक्तो दोषः।। अत्राह-'विसिटेत्यादि' यदि परिकल्पितास्ततः कथं नु विशिष्टफलकारणं-वस्तुसद्विशिष्टपीतादिज्ञानलक्षणफलनिबन्धनं मताः?, परिकल्पितं हि परमार्थतोऽसत्, तत्कथं ता विशिष्टफलनिवन्धनं भवेयुरिति ? । यदि पुनस्तद्भावात्परिकल्पितभावात् फलभावोऽभ्युपगम्येत ततस्तस्मिन् सति अतिप्रसङ्गः प्राप्नोति, स चानिष्ट इति यत्किंचिदेतत् ॥ ६९९ ॥ उपसंहरति ता जो इमस्स हेतू सो चिय बज्झत्थमोऽवसेणावि । in Education a l For Private & Personel Use Only Www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy