SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ धर्म ॥२५५॥ Jain Education दपक्षे चाभ्युपगम्यमाने सर्वासामपि शक्तीनामेकत्वं प्राप्नोति, एकस्मादालयादनन्यत्वात्, तत्खरूपवत् ॥ ६९६ ॥ एतदेव भावयति एगो स आलयो जं तत्तोऽभिन्नाण णत्थि नाणत्तं । नाणवि य पावति तदभेदा आलयबहुत्तं ॥ ६९७ ॥ यत् - यस्मात्स आलय एकस्ततः - तस्मादालयादभिन्नानां शक्तीनां नैव नानात्वमस्ति नैवं नानात्वमुपपद्यते, नानात्वे वा तासां शक्तीनामिष्यमाणे तदभेदात्-शक्त्यभेदादालयस्य बहुत्वं प्राग्नोति, तथा च सत्यभ्युपगमविरोधः ॥ ६९७॥ पक्षान्तरं दूषयितुमाशङ्कते - अह ता भिन्नाभिन्ना विरोहतो णेस संगतो पक्खो । य एतावच्चा अवच्चसदप्पवित्तीओ ॥ ६९८ ॥ अथ ताः- शक्तय आलयात्सकाशान्न भिन्ना नाप्यभिन्नाः किंतु भिन्नाभिन्नास्ततो न कश्चिद्दोषः इति मन्येथाः अत्राह - 'विरोहेत्यादि' विरोधतो - विरोधदोषप्रसङ्गात् नैप पक्षः संगतः । तथाहि - यदि भिन्नाः कथमभिन्नाः अथाभिन्ना For Private & Personal Use Only संग्रहणि ॥२५५॥ w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy