________________
Jain Education
किंच इह-जगति नीलात् - नीलाकारात् विज्ञानादनन्तरं जायते पीताकारादिज्ञानमनेकधा - अनेकप्रकारं, न च तत्पीतादिकज्ञानमहेतुकं, सदाभावादिप्रसङ्गात्, ततो यदि बाह्योऽर्थस्तथा तथा विचित्राकाराधायकत्वेन नाभ्युपगम्यते तर्हि तस्य पीतादिज्ञानस्य को हेतुरिति वक्तव्यम् ? ॥ ६९४ ॥ पर आह
आलयगता अणेगा सत्तीओ पागसंपउत्ताओ । जयंति नीलपीतादिनाणमन्नो न हेतुति ॥ ६९५ ॥
आलयगता - आलयविज्ञानगता अनेकाः शक्तयः 'पागसंपउत्तत्ति' पाकसंप्रयुक्ता विपाकप्राप्ताः सत्यो जनयन्ति | नीलपीतादिकं - नीलपीताद्याकारं ज्ञानमतस्ता एव हेतवो न पुनरन्यो बाह्योऽर्थ इति ॥ ६९५ ॥ अत्राचार्य आहता आलयातो भिन्नाभिन्ना वा होज ? भेदपक्खम्मि । ता चेव उवज्झत्थोऽभेदे सव्वाणमेगन्तं ॥ ६९६ ॥
ताः - शक्तयो नीलपीताद्याकारज्ञानहेतवः आलयात् आलयविज्ञानात् सकाशात् भिन्ना वा भवेयुरभिन्ना वा ? । तत्र यदि भेदपक्षस्ततस्ता एव - शक्तयो वाह्योऽर्थः, ज्ञानादन्यस्य सर्वस्यापि वस्तुसतो वाह्यार्थत्वेनाभ्युपगमात् । अभेदे - अभे
For Private & Personal Use Only
jainelibrary.org