________________
संग्रहणि
॥२५४॥
जनकखभावत्वमितियावत् तस्मिन् कश्चिद्विरोधः सिद्धः, तत्साधकप्रमाणाभावात्, अपितु तथातथाविचित्राकारोपेतज्ञानप्रबन्धदर्शनात् गम्यते अर्थस्य जनकतद्भावः । इतरथा-एवमनभ्युपगमे ज्ञानस्याभावः प्राप्नोति, आकारा-1 धानसमर्थस्य कारणान्तरस्याभावात् । सिद्धौ च-भावे च ज्ञानस्य तत्तत्तथाविधविचित्राकारोपेतस्य कथं 'तउत्ति' सकः-अर्थो नास्तीत्युच्यते इति । स्यादेतत् , यद्यर्थो भवेत् ततस्तद्वाहकं प्रमाणमपि प्रवर्तेत, न च प्रवर्तते, तस्मात्स नास्त्येवेति ॥ ६९२ ॥ अत आह
गाहगपमाणविरहो एवं साधारणो उ नाणेवि ।
अत्थि य तं अत्थस्सवि सत्ता तह चेव अणिसेज्झा ॥ ६९३ ॥ ग्राहकप्रमाणविरह एवम्-अनन्तरोक्तेन प्रकारेण ज्ञानेऽपि साधारण एव । तुशब्द एवकारार्थः। अथ च तत् ज्ञानमस्ति तथा अर्थस्यापि सत्ता अनिषेध्यैव ॥ ६९३॥ अत्रैवोपचयमाह
किंच इहं नीलातो जायइ पीतादणेगधा णाणं । णय तं अहेतुगं चिय को हेतू तस्स वत्तवं ? ॥ ६९४ ॥
SASSAIGOS
॥२५४॥
***
Jain Education relational
For Private & Personel Use Only
Alwww.jainelibrary.org