SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ SHRES अह सो परस्स एवं तदभावो तस्स चेव सज्झोऽवि । तुह आयनिच्छयो कह ? अजुत्तितो सा समा णाणे ॥ ६९१ ॥ अथ सः-बाह्योऽर्थः परस्य-अर्थवादिन एवम्-उपलब्धिलक्षणप्राप्तोऽभिमतस्तत्कथं तस्यादर्शनादभावनिश्चयो न भवतीति ? । अत्राह-'तदभावो' इत्यादि, यदि परस्योपलब्धिलक्षणप्राप्तोऽर्थोऽभिमतस्ततस्तस्यैव-परस्य तदभावो बाह्याभावः साध्यः स्यात् , तव पुनरात्मनिश्चयो-बाह्याभावविषयः कथमुपजायते ? । पर आह-'अजुत्तिउत्ति अयुक्तेः-युक्त्यभावात् । यद्यपि हि नोपलब्धिलक्षणप्राप्तोऽर्थस्तथापि नासी युक्त्या युज्यत इति तदभावनिश्चयः क 15 शक्यत एवेति। अत्राह-'सा समा णाणे' सा-अयुक्तिोनेऽपि समा-तुल्या यथाऽभिहितं प्राक, ततो नायुक्तरप्यर्थाभावनिश्चयः ॥ ६९१॥ किंच न य णाणाण विरोहो सिद्धो अत्थस्स जणयतब्भावे । गम्मति इहराभावो सिद्धीए य कह तओ नत्थि ? ॥ ६९२ ॥ न च ज्ञानानां विषये अर्थस्य यो जनकतद्भावः-स चासौ भावश्च तद्भावो जनकश्चासौ तद्भावश्च जनकतद्भावो, S51-96025 JainEducation For Private Personel Use Only Na.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy