________________
धर्म
॥२५॥
माणे इमीऍ भावो विणा तयं जइ इमीऍ सिद्धित्ति ।
संग्रहणिः तत्तोच्चिय अत्थस्सवि सिद्धीऍ निवारणमजुत्तं ॥ ६८९ ॥ माने-प्रमाणे साधके अभ्युपगम्यमाने सर्वशून्यताया अभावः प्राप्नोति । अथाप्रमाणत इति पक्षस्तर्हि कथं तस्याः।। सिद्धिः १, प्रमाणमन्तरेण प्रमेयसिद्ध्ययोगात् । अन्यथा यदि तकत्-प्रमाणं विनाऽपि अस्याः-सर्वशून्यतायाः सिद्धिरिप्यते तर्हि तत एव-प्रमाणाभावात् अर्थस्यापि सिद्धर्भवन्त्या निवारणमयुक्तं, प्रमाणाभावस्य प्रमेयसियभावानिवन्धनत्वात् । ततश्च यो ग्राहकप्रमाणविरहादिभिर्बाह्यार्थाभावसाधने हेतुरुपन्यस्तः सोऽनैकान्तिक इति ॥ ६८९ ॥ अन्यच्च,
न य सो उवलद्धिलक्खणपत्तो जमदरिसणे वि ता तस्स ।
तदभावनिच्छयो णणु एगंतेणं कुतो सिद्धो? ॥ ६९० ॥ न च यत्-यस्मात् सः-बाह्योऽर्थ उपलब्धिक्षणप्राप्तः, 'ता' तस्मात्तस्य-वाह्यार्थस्यादर्शनेऽपि नन्वेकान्तेन तद- २५३॥ भावनिश्चयो-बाह्यार्थाभावनिश्चयः कुतः सिद्धो ?, नैव कुतश्चिदितिभावः । दर्शनाभावमात्रस्यानुपलब्धिलक्षणप्राप्तेप्वभावसाधकत्वायोगात् । तत एवमपि पूर्वोक्तो हेतुरनैकान्तिक एव ॥ ६९० ॥
haw.jainelibrary.org
For Private & Personal Use Only
Jain Education International