________________
यदि साकारं कथमनाकारम् ?, अथानाकारं कथं साकारमिति ? । अस्तु वा यथाकथंचनापि तत्साकारमनाकारं तथापि यत् तस्य तदन्तरग्रहणं 'मो' निपातः पूरणे, तत् स्फुटमर्थतुल्यमेव-अर्थग्रहणतुल्यमेव । तुरेवकारार्थः । अर्थस्याप्येवं ग्रहणमनिवार्यमिति भावः। उभयोरपि-ज्ञानान्तरार्थयोस्तत्त्वतस्तुल्ययोगक्षेमत्वात् ॥ ६८७ ॥ तुरीयं पक्षं दूषयन्नाह
अणुभयरूवमभावो तब्भावे सवसुन्नतावत्ती।
सा अणुहवसिद्धेणं विरुज्झती निययनाणेणं ॥ ६८८ ॥ अनुभयरूपं-न साकारं नाप्यनाकारमिति यदि विज्ञानमभ्युपगम्यते ततः खरविषाणस्येव तस्याभावः प्राप्नोति ।। किं हि तत्सद्भवेत् यन्न साकारं नाप्यनाकारमिति ? । ततः किमित्याह-'तद्भावे इत्यादि' तद्भावे-ज्ञानाभावभावे सर्वशून्यतापत्तिः प्राप्नोति, ज्ञानार्थव्यतिरेकेण वस्त्वन्तरस्याभावात् । भवत्वेवं का नो हानिरितिचेत् । अत आह-'सा अणुहवेत्यादि' सा-सर्वशून्यतापत्तिरनुभवसिद्धेन-खसंवेदनप्रमाणसिद्धेन निजकज्ञानेन विरुध्यते, यदि हि सर्वशून्यता स्यात् ततः कथमिदमात्मीयमपि ज्ञानमनुभूयतेति ? । अपि च, इयमपि सर्वशून्यता प्रमाणतो वा व्यवस्थाप्येत अप्रमाणतो वा ?, किंचातः?, यदि प्रमाणतस्ततः सर्वशून्यताया अभावः, प्रमाणस्य विद्यमानत्वात् ॥६८८॥ तथाचाह
Jan Education
For Private
Personel Use Only
jainelibrary.org