________________
धर्म
संग्रहणिः
॥२५२॥
स्ततो-ज्ञानरूपाविषयात् कथं नु युक्तो ?, नैव कथंचनेतिभावः। 'तहेव किंवा न बज्झाउत्ति' वाशब्दः पक्षान्तरसूचने । ततो यथा ज्ञानरूपाद्विषयात् असावाकारोऽभ्युपगम्यते तथैव बाह्यादप्यात्किन्नाभ्युपगम्यते ?, उभयत्रापि विशेषाभावात् ॥ ६८५॥ अनाकारपक्षमधिकृत्याह
अह उ अणागारं चिय विन्नाणं तहविगाहगं तेसिं।
अत्थस्सवि एवं चिय गाहगभावम्मि को दोसो ? ॥ ६८६ ॥ अथ, तुः पूरणे, विज्ञानमनाकारमेव न साकारं तथापि कुतश्चित् प्रतिनियतस्वभावविशेषात् तेषां ज्ञानान्तराणां ग्राहकमिति मन्येथाः?, अत्राह-'अत्थस्सवीत्यादि' अर्थस्यापि ग्राह्यभावमापन्नस्य एवमेव-ज्ञानान्तरस्येव विषये विवक्षितज्ञानस्य ग्राहकभावे सति को दोषो ?, नैव कश्चनेति भावः, अभिहितयुक्तरत्रापि समानत्वात् ॥ ६८६ ॥ तृतीयं पक्षमधिकृत्याह
सागारअणागारं तु विरोहा कह णु जुज्जती नाणं ? ।
भावेवि तदंतरगहणमो फुडं अत्थतुल्लं तु ॥ ६८७ ॥ साकारानाकारं तु ज्ञानं कथं नु युज्यते ?, नैव कथंचनेति भावः। कुत इत्याह-विरोधात्-विरोधदोषात् । तथाहि
HEMEROCRACKS
॥२५२॥
Jain Educatio
n
al
For Private & Personel Use Only
anaw.jainelibrary.org