________________
काचिदित्यर्थः, ततश्चैवमुभयोरपि ज्ञानार्थयोर्युक्त्यभावेऽविशिष्टे सति को नु मत्सरो ? येनार्थो नाभ्युपगम्यते किंतु 18| केवलं ज्ञानमेवेति ॥ ६८३॥ अत्र परस्य मतमाशङ्कमान आह
अह उ ससंवेदणसिद्धमेव णणु णिययमित्थ विन्नाणं ।
अत्थस्स दंसणं इय सिद्धं नणु सयललोगेवि ॥ ६८४॥ अथाभिदधीथाः-ननु नियतं-निश्चितमत्र-जगति विज्ञानं खसंवेदनप्रमाणसिद्धमेव तत्कथमस्य प्रतिक्षेपः क्रियते ?, प्रतिक्षेपयुक्तीनामध्यक्षसिद्धविषयतया युक्त्याभासत्वात् । अत्राह-'अत्थस्सेत्यादि' ननु इतिः-एवं ज्ञानस्येवेत्यर्थः अर्थस्यापि दर्शनं सकलेपि लोके सिद्धं, ततो न तस्याप्यर्थस्य प्रतिक्षेपो युक्तः, अभिहितयुक्तीनामध्यक्षसिद्धविषय तया युक्त्याभासत्वादिति ॥६८४॥ यदुक्तम्-'किंचागारो तस्सा किमंगभूतो' इत्यादि, तत्र द्वितीयं पक्षमधिकृत्याह
अह विसया आगारो स उ णाणं अत्थभणियदोसातो।
सो कह णु तओ जुत्तो ? तहेव किंवा न बज्झाओ ? ॥ ६८५ ॥ __ अथ मन्येथाः-नासावाकारो ज्ञानस्याङ्गभूतः किंतु विषयादुपजायते, स तु विषयो ज्ञानं-ज्ञानान्तरं न पुनः परप रिकल्पितो बाह्योऽर्थ इति । अत्राह-'अत्यभणिएत्यादि' अर्थभणितदोषात्-अर्थपक्षभणितदोषप्रसङ्गात् , सः-आकार
Jain Education
in
For Private & Personel Use Only
T
Mjainelibrary.org