________________
官
॥२५१॥
Jain Education
• भेदाभेदौ च विचार्यमाणौ न सम्यक् युक्तिं संसहते । कुत ? इत्याह - विरोधदोषात् । तथाहि यदि भेदः कथ| मभेदः अथाभेदः कथं भेद इति ? । अथ कथंचिदितरेतरानुवेधेन नायं भेदाभेदपक्षो विरुद्ध इत्युच्येत तत्राह - समयकोपतश्चैव न सम्यग् युक्तिं संसहते इति संबन्धः । एकान्तैकस्वभावाभ्युपगमपरो हि युष्मद्राद्धान्तस्तत्कथमितरेतरानुवेधतो जात्यन्तरात्मकभेदाभेद पक्षोऽभ्युपगम्यते, परसिद्धान्ताभ्युपगमप्रसङ्गात् । तथा वाह्यार्थापत्तेश्च न भेदाभेदौ युक्तिं संसहते । तथाहि - यदि ग्राह्यग्राहकाकारयोर्भेदाभेदावभ्युपगम्येते तर्हि बाह्यार्थेऽपिं तुल्यांशातुल्यांशयोरवयव्यवयवशब्दवाच्ययोर्भेदाभेदावभ्युपगन्तव्यौ, दोषाभावात् । तथा च सति न कश्चिद्रक्ष्यमाणनीत्या उक्तवृत्त्ययोगादिदोषाणामवकाश इति बाह्यार्थापत्तिरव्याहतैवेति ॥ ६८२ ॥ चरममवान्तरमूलपक्षमधिकृत्याहअह अणुभयरूवं चिय नत्थि तयं हंदि खरविसाणं व ।
एवं च ठिए संते नाणम्मिवि तुज्झ का जुत्ती ? ॥ ६८३ ॥
अथानुभयरूपमेव तत् ज्ञानमिति पक्षः, हन्त तर्हि तकत् - ज्ञानं खरविषाणमिव सर्वथा नास्त्येव । किं हि तत् सद्भवेत् यत् सर्वथा न ग्राह्मरूपं नापि ग्राहकरूपमिति । एवं च स्थिते सति ज्ञानेऽपि तवाभ्युपगते का युक्तिः १, नैव१ ऽपि तुल्यांशयोरिति क पुस्तके ।
For Private & Personal Use Only
संग्रहणिः
॥२५१॥
Kolw.jainelibrary.org