________________
Jain Education In
यस्मान्न हि-न खलु द्वयोर्विरुद्धयोरेकव्यापित्वमेकस्वभावमर्थमभिव्याप्यावस्थानमिह लोके दृष्टं नापि भवतः खस - मये इष्टमिति ॥ ६८० ॥
अह उ अभेदो ता एगभावतो चेव णोभयागारं । परिगप्पणम्मि एवं अतिप्पसंगो पमासिद्धो ॥ ६८१ ॥
अथ तयोर्ग्राह्याकारग्राहकाकारयोरभेद इति पक्षः । अत्राह - 'ता' ततोऽन्यतराकारस्यान्यतराकाराव्यतिरिक्ततया तत्खरूपतापत्तेरेकभावत एव — एकस्यैवान्यतरस्याकारस्य भावतो न तत् ज्ञानमुभयाकारम् । अथोच्येत स्वभावतस्तत् अन्यतरात्मकमेव, द्वितीयं तु रूपं तत्र परिकल्पितमिति यथोक्तदोषाभाव इति । अत आह— 'परिकप्पेत्यादि' परिकल्पने चैवं क्रियमाणेऽतिप्रसङ्गः प्रमासिद्धो-न्यायसिद्धः प्राप्नोति । यत् किंचित् दृष्ट्वा षष्ठस्कन्धस्या - |प्येवं परिकल्पनाप्रसक्तेः, तस्याः पुरुषेच्छामात्रानुरोधित्वात् पुरुषेच्छायाश्चैवमप्यनिवारितप्रसरत्वात् ॥ ६८१ ॥ भेदाभेदपक्षमधिकृत्याह
भेदाभेदौ (दो) विरोधदोसतो समयकोवतो चेव । बज्झत्थावत्ती य सम्मं जुत्तिं न संसहइ ॥ ६८२ ॥
For Private & Personal Use Only
jainelibrary.org