SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि अह कहवि तस्सवगमो तहेव अथिम्मि मच्छरो को णु ? । ॥२४९॥ सो नत्थि अजुत्तीओ नाणम्मिवि हंत तुल्लमिदं ॥ ६७५॥ अथ कथमपि पूर्वोक्तदोषभयात्तस्य-बुद्धादिचित्तमात्रस्यावगम इष्यते, ननु तर्हि तथैव यथा बुद्धादिचित्ते तथा है अर्थेऽप्यवगमो भविष्यति, ततः को नु भवतस्तत्र मत्सरो? येनासौ नेष्यते, नैवासौ युक्तो, भवदुक्तन्यायस्योभयत्रापि तुल्यत्वात् । अथोच्येत-सोऽर्थः सर्वथा नास्ति अयुक्तितः-तत्साधकयुक्त्यभावत इत्यत आह-'णाणम्मिवीत्यादि' 'हन्तेति' प्रत्यवधारणे । तदुक्तम्-"हन्त संप्रेषणप्रत्यवधारणविषादेष्विति" । ज्ञानेऽपीदं-तत्साधकयुक्त्यमावलक्षणं (प्रमाणं) तुल्यमेव ॥ ६७५ ॥ कथमित्याह जं गज्झगाहगोभयमणुभयरूवं व होज विन्नाणं ? । जति गज्झरूवं मो ता ण गाहगं अत्थि भुवणेऽवि ॥ ६७६ ॥ यत्-यस्मादिदं विज्ञानं किं ग्राह्यरूपं भवेत् उत ग्राहकरूपम् आहोश्चि(खि)त् उभयरूपम् अनुभयरूपं वा-न ग्राह्यहै रूपं नापि ग्राहकरूपमिति ? । तत्र यदि ग्राह्यरूपमिति पक्षो 'मो' निपातः पूरणे, 'ता' ततो न ग्राहकं ज्ञानमस्ति, IPI भुवनेऽपि सकले सर्वेषामपि ज्ञानानां घटादिवत् सर्वथा ग्राह्यरूपैकखभावत्वाभ्युपगमात् ॥६७६॥ ततः किमित्याह -SAMRORMACOCCASSEOCALCROSAR ॥२४॥ Jain Education For Private Personel Use Only rary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy