________________
जति तावदंगभूतो कहं णु णाणंतरावगमो ? ॥ ६६८ ॥
किंच, तस्य-ज्ञानस्याकारः किमङ्गभूत उत विषयादुत्पन्न १ इति विकल्पद्वयम् । तत्र यदि तावदङ्गभूतस्ततः कथं नु तेन ज्ञानेन ज्ञानान्तरस्यावगमो १, नैव कथंचनेति भावः, तस्य स्वाकारमात्रसंवेदनप्रवणत्वात् ॥ ६६८ ॥ अणवगमम्मिय परमोहविउट्टणं केण सत्थमुवदिट्टं ? | तदभावे सम्ममिदं मिच्छा इतरं तु को मोहो ? ॥ ६६९ ॥
अनवगमे च ज्ञानेन ज्ञानान्तरस्य केन 'परमोहविउट्टणंति' परमोहविकुट्टनं शास्त्रमुपदिष्टं १, नैव केनचिदुपदिष्टं प्राप्नोति, परस्यैवाप्रतिपत्तिरितिभावः । तदभावे - शास्त्रा भावे सम्यगिदं तन्निमित्तं विज्ञानमितरच - अतन्निबन्धनं | मिथ्येति यो मोहः स को नाम ?, अपूर्वोऽयमेकान्तेनासंभवी जात इत्यभिप्रायः ॥ ६६९ ॥ एकान्तेनासंभवित्वमेव दृष्टान्तेन भावयति
Jain EducationE
ational
चोरो वंझापुतो अतो असाधुत्ति किमिह विन्नाणं । जायइ तिक्खं च जओ खरसंगं तेण साहुत्ति ? ॥ ६७० ॥
For Private & Personal Use Only
www.jainelibrary.org